________________
३२
[ मूलराजः ]
याश्रयमहाकाव्ये
तावद्धिमांशुरानन्दी तावद् हेमाद्रिरुन्नतः । वाग्लादिनोत्र नेक्ष्यन्ते यावद्विष्वहिता नराः || ४० ॥
४०. हिमांशुश्चन्द्रस्तावदानन्दी जगतामाहादयिता । तथा हेमाद्रिर्मेरुस्तावदुन्नत उच्चो यावदत्र पुरे नराः सज्जना नेक्ष्यन्ते । किंभूताः । वाग्वादिनो वाचा सत्यमितमधुग्या वाण्या हादिनः सकलया आनन्दनशीलाः । तथा विष्वग्हिता विष्वक् समंततः सर्वैः प्रकारैः सर्वेषु॑ च हिता अनुकूलाः । एतेनोन्नतमनस्कत्वसूचा । उन्नताशया हि विष्वहिताः स्युः । तुच्छाशयास्तु कदाचित्कार्यवशेन हिताः कदाचिन्नेति । वाग्वादिविष्वग्घितानामत्रत्यजनानां दर्शने सुधांशुमेरू आनन्दकोन्नतावपि न किंचित्प्रतिभासेते इत्यर्थः ॥
यशःकृतककुब्भासैर्द्विङ्कृतिप्रथितैर्नृपैः ।
ककुब्हस्तिबलैरत्र तुराषायिमश्रुते ॥ ४१ ॥
1
४१. अत्र पुरे नृपैर्वनराजादिभिर्हेतुभिस्तुराषाडिन्द्रो हियमश्रुते लज्जते । कीदृशैः । ककुव्र्हस्तिबलैः । दिग्गजपराक्रमैरत एव द्वितिप्रथितैः । द्विषां शत्रूणां हत्या हननेन सर्वत्र विख्यातैरत एव च यशसा कीर्त्या कृतः ककुभां दिशां हासो लक्षणयोच्योतो यैस्तैः । अत्यनृपान्मनुष्यानपि बलादिना स्वस्मादधिकान् दृष्वेन्द्रो लज्जत इत्यर्थ: ।।
1
अनज्झलिव सोज्हल्भ्यां धर्मार्थाभ्यां युतो जनः । निरीक्ष्यतेत्र निष्पापं चेष्टयन् हितकाम्यया ॥ ४२ ॥
४२. अत्र पुरे स सर्वत्र प्रसिद्धो जनो लोको हितकाम्ययैहिकपा
एफ उच्चैस्तरो या. २ सी डी पृथिव्यां आ . ३ सी न्दशी ४ एफू 'षु हिताबानु ५ एफ् हन. ६ बी त्र नृ.