SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ ५७४ व्याश्रयमहाकाव्ये उबोषैव दिशो वह्निः क्ष्मा विभायेव कम्पभृत् । न ते तथापि विभयांबभूवुर्मेदिनीभुजः ॥ १२३ ॥ १२३. वह्निर्दिश उवोपेव । नृपपराजयसूचकोत्पातोद्भवाद्दिशोभिना दह्यमाना इवालक्ष्यन्तेत्यर्थः : । तथा कम्पभृत्क्ष्मा बिभायेव । तथाप्येवमुत्पातसद्भावेपि ते मेदिनीभुजो न विभयांवभूवुर्बलावलेपान्न भीताः ॥ नेन्द्रायो विभयामास विभयांचकृवान्स किम् | [दुर्लभराजः ] मजिह्यांचकाराजौ तैः प्रत्युत चुलुक्यराट् ॥ १२४ ॥ १२४. स्पष्टः । किं तु तैर्नृपैः सहाजौ रणे सति प्रत्युत प्रजिह्वयांचकार किमेभिरतिहीनैः सह युद्धेनेति लज्जितः ॥ जिहाय यद्यपि तथाप्यजगावं बभार सः । पुरो दिधक्षोभिरांबभूवेशस्य विभ्रमम् ॥ १२५ ॥ १२५. स दुर्लभो यद्यपि जिहाय तैः सह युद्धेन लज्जितस्तथापि तेषां वृथाबलाभिमानापनोदायाजगावं धनुर्बभाराधारयत् । अजगांवशब्दः सामान्यधनुष्यपि वर्तते । अत एव पुरस्तिस्रः पुरीर्दिधक्षोर्दग्धुमिच्छोरीशस्य शंभोर्विभ्रमं बिभरांबभूव । पुरो दिधक्षुरीशो - जगावं पिनाकं बभार ॥ तत्राप्राविव केपीपुसमिषो जुहुवुर्नृपाः । केपि स्वं जुहवांचक्रुर्विदांचक्रुर्न तद्बलम् ॥ १२६ ॥ १२६. केपि नृपास्तत्राञावनाविवेषुसमिषः शरैघान् जुहुवुश्चि २ बी स्वं जहुवा° ३ ए सी डी जुहुवा. १ ए नैन्द्रा.. १ गावः श° २ बी सी डी रो दभिक्षु .
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy