________________
५६८ व्यायमहाकाव्ये
[दुर्लभराजः यदुतकनामत्वेनैकराशित्वादेकनक्षत्रत्वाच तवामुना सहातिश्रेष्ठो योग इति ॥ तपस्यताम् । अत्र "तपसः पन्" [३६] इति क्यन् ॥ नमसन् । वरिवस्यन् । अचित्रीयत । इत्यत्र "नमः" [३५] इत्या. दिना स्यन् ॥
साथ हस्तयमांनास्य कण्ठे चिक्षेप च स्रजम् ।
अधैरुत्पुच्छयमानर्ययौ कुप्यच्च राजकम् ॥ १०८ ॥ १०८. अयैवं द्वास्थाभणनानन्तरं सा दुर्लभदेवी हस्तयमाना हस्त. मुक्षिपन्त्यस्य दुर्लभस्य कण्ठे स्रजं वरमालां चिक्षेप च । तथा राजक नृपौधः कुप्यदुर्लभवरणेन क्रुध्यत्सदुत्पुच्छयमानैवेगेन प्रेरितत्वात्पुच्छानूलमस्यनिरश्वैः कृत्वा ययौ च स्वयंवरमण्डपानिर्जगाम च ॥
परिपुच्छयमानेभैरश्वैः पुच्छयमानकैः । द्राग्विपुच्छयमानोरथैरागाच्च बन्धुता ॥ १०९ ॥
१०९. बन्धुता दुर्लभस बान्धवोघो विवाहोत्सवविधय आगात् । कैः कृत्वा । परिपुच्छयमानेभैः पुच्छान्समन्तादस्य द्भिर्गजैस्तथा पुच्छयमानकैरझातैः पुच्छानस्यद्भिरश्वैस्तथा विपुच्छयमानाः पुच्छाविविषं विशिष्टं वास्यन्त उक्षाणो वृषा येषु ते तथा ये रथास्तैश्च ।। हस्तयमाना । इस्यत्र "भमात्" [३८] इत्यादिना णिक् ॥ उत्पुछपमानैः । परिपुच्छयमान । विपुच्छयमान । पुष्छयमानकैः । भत्र "पुकाद" [१५] इत्यादिना णिक् ॥
१सीडी छान्यूल'. २ सी डी विरुधैः क. ३९६ विषये.