SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ ५६० ब्याश्रयमहाकाव्ये [दुर्लभराजः पोयूयः । अत्र "नोतः" [१६] इति न यडो लुप् ॥ अचोरयत् । नाटयत् । इत्यत्र "चुरादिभ्यो णिच्” [ १७ ] इति णिच् ॥ नियोजयन्त्या वेत्रिण्याः संयोजन्ती करे करम् । नाम्ना दुर्लभदेव्यागान्महेन्द्रस्य स्वसा ततः ॥ ९२ ॥ ९२. ततोनन्तरं नाना दुर्लभदेवी महेन्द्रस्य स्वसा स्वयंवरमण्डपमागात् । किंभूता सती । नियोजयत्या राजन्यचक्रदर्शनार्थं प्रेरयन्या वेत्रिण्याः प्रतीहार्याः करे करं संयोजन्ती संबन्ती हस्तिका ददतीत्यर्थः ॥ विलम्ब नासहन्भूपा नान्योदन्तमसाहयन् । सदो भावयमानां तां वीक्ष्य क्षोभं बभूविरे ॥ ९३ ॥ ९३. सदः सभां भावयमानां प्राप्नुवतीं तां दुर्लभदेवीं वीक्ष्य नृपाः क्षोभं बभूविरे प्रापुः । अत एव विलम्ब नासहन् । तत्प्राप्यौत्सुक्यात्कालक्षेपं न चक्षमुः । तथा तत्रैव गतचित्तत्वादन्योदन्तं दुर्लभदेव्या अन्यस्याः कामिन्या वार्तामपि नासाहयन्न सेहिरे॥ स्त्रीषु रत्नं बभूवैषा भवन्ती तांदृशीं श्रियम् । जीवयन्ती यतोननं किंकरत्वमकारयत् ॥ ९४ ॥ ___९४. एषा दुर्लभदेवी स्त्रीषु नारीजातिमध्ये रत्नमुत्कृष्टा बभूव । पतो यस्माद्धेतोरेषानङ्गं किंकरत्वं स्वादेशकारितामकारयत् । कीड. १एनन्तं किं. रीति य. २ ए योजं सं. बी योजयन्ती. ३ सी डी भती है। ४५ मं विभ
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy