SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ ५४४ ख्याश्रयमहाकाव्ये [दुर्लभराजः] द्विषोपलापयमानं स राज्ये न्यस्य दुर्लभम् । तपसा लापयांचके नोदलापयत स्वमु ॥ ५७ ॥ ५७. उ इति चामुण्डराजीयमहावदातश्रवणाय लोकानामभिमुखीकरणे । अहो लोकाः स राजा द्विषोपलापयमानमभिभवन्तं दुर्लभं दुर्लभराजं राज्ये न्यस्य तपसानशनेन लापयांचक्रे परैरात्मानमपूजयत् । अत एव स्वमात्मानं नोदलापयत नावञ्चयत ॥ तेन स्मालाप्यते विस्मापयमानस्तपोगुणः।। विस्मापनकृता शुक्लतीर्थे गत्वाधिनर्मदम् ॥ ५८ ॥ ५८. अधिनर्मदं नर्मदानद्यां शुक्लतीर्थे तिलादिकृष्णवस्तुन इवात्मनोपि पापमलक्षालनेन नैर्मल्यहेतुत्वाच्छुक्लं यत्तीर्थ तस्मिन् गत्वा तेन चामुण्डराजेनालाप्यते स्म परैरात्मा पूज्यते स्म । यतो विस्मापयमानैरतितीव्रत्वेन लोकं विस्मयमानं प्रयुञ्जानैस्तपोगुणैनिस्पृहतादिभिः कृत्वा विस्मापनकृताश्चर्यकारिणा । नर्मदायां शुक्लतीर्थे तपोभिरा. स्मानं साधितवानिति तात्पर्यार्थः ॥ तपसा लापर्याचक्रे । द्विषोपलापयमानम् । वं नोदलापयत । इत्यत्र "हीडिनोः(न:)" [९०] इत्यादिनारमन आचान्तस्याकंर्तर्यपि ॥ अकर्तर्यपीति किम् । तपोगुणैखेनालाप्यते ॥ विमापयमानैः । अत्र "स्मिः" [११] इत्यादिनारमन आचान्तस्याकर्त. पि ॥ अकर्तर्यपीत्येव । विस्मापन ॥ अभीषयत निर्भीषानप्यरीनथ दुर्लभः । यद्भापनभुजः शक्रमप्यभापयतोच्चकैः ॥ ५९॥ १५ र तश्राव'. २ सी डी स्पृहिता'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy