SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ [ है० ३.३.७३.] सप्तमः सर्गः । देवात्सोस्याथ रोगोभूच्छिक्षांचक्रे न कोपि यम् । यमेदिधिपमाणं च व्यजिगीषन्त नागदाः ॥ ४३ ॥ ४३. अथ दैवाद्विधिवशादस्य वल्लभस्य स रोग: शीतलिकाख्योभूद्यं रोगं कोपि वैद्यादिर्न शिक्षांचक्रे । शरीरान्तर्गतत्वेन न ज्ञातुं शक्नुयामितीच्छति स्मेत्यर्थः । यं च रोगमेदिधिषमाणं विवर्धिषमाणमगदा औषधानि न व्यजिगीषन्त । असाध्यो व्याधिरुत्पन्न इत्यर्थः ॥ १ I सोने चिक्रंसमानं तमीक्षांचऋाण आत्मना । समाधिं बिभरांच बिभयांचकुवान हि ॥ ४४ ॥ ५३७ ४४. स वल्लभो न हि बिभयांचकृवान्नैव भीतः । कीदृक्सन् । अङ्गे चित्रसमानं स्फायितुकामं तं रोगमात्मनेक्षांचकोणो बाधावृद्ध्या ज्ञातवान् । किं तर्हि समाधिं चित्तैकाग्र्यं बिभरांचक्रे पोषितवान् । एतेनास्य विद्वत्तोक्ता ॥ बिभरांचकृवान्स्थैर्यमुत्कुर्वाणः कलिं तदा । संसारं सोवचक्रेथोपचक्रे योगिनां पदम् ॥ ४५ ॥ ४५. तदा स वल्लभः कलिं कलिकालकर्म रागद्वेषादिकं कलैहं बोत्कुर्वाणः परिजिहीर्षया सदोषं प्रतिपादयन्धैर्यं चित्तावष्टम्भं बिभरांचक्रवान्पोषितवान् । अथ तथा संसारं रागद्वेषादिदोषात्मकं भवप्रपश्वमवचक्रे तिरस्कृतवानत एव योगिनां पदमुपचक्रे सिषेवे । योगिनो हि कलिमुत्कुर्वाणा धैर्यं बिभ्रति संसारं चात्रकुर्वते ॥ १ सी. च विजि . डी च वाजि. १ ए°तिः । यं ६८ २ एकाणा ०. ३ सी डी 'लहमुत्कु
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy