SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ ५१४ द्याश्रयमहाकाव्ये [मूलराजः] करीषवह्रौ स्वं वपुर्तुत्वा क्षित्वा । अङ्गुष्ठे करीषाग्नेर्दानेन स्वाङ्गं भस्मसात्कृत्वेत्यर्थः । यतोपिनद्धा मोहेन नियत्रितापिहिता मोहेनाच्छादिता विशेषणकर्मधारयगर्भे नन्समासेनपिनद्धापिहिता धीर्यस्य स तथा । स्वशरीरेप्यमूढ इत्यर्थः । योपि सूनुः सूर्यः सोप्यस्तसमये खं वपुः किरणरूपमग्नौ हुत्वा क्षिप्त्वाथानन्तरं प्रभाते प्राची पूर्वा दिशं गत्वा दिवमाकाशं यातीत्युक्तिः ॥ पृषोदरेण । जीमूत । इत्येतो "पृषोदरादयः" [१५५] इति साधू ॥ वतंस अवतंसकेन । वक्रय अवक्रयम् । सुपिहित अपिहित । पिनद्ध अपिनछ । इत्यत्र “वावाप्योः" [१५६] इत्यादिनावाप्योर्वप्यादेशौ वा । शार्दूलविक्रीडितं (शिखरिणी) छन्दः ॥ दशमः पादः समर्थितः ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेम. चन्द्राभिधानशब्दानुशासनद्याश्रयवृत्ती षष्टः सर्गः समाप्तः ॥ १ सीषणं क. २ बी रूपंहु. ३ ए सी डी त । पिन.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy