SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ २५ [है० १.२.३४.] प्रथमः सर्गः । मणीव मसणौ चक्रदंपतीव युतौ स्तनौ । विजेतुं रोदसीवात्र स्त्रीणां भातः स्मरायुधे ।। २९ ॥ २९. अत्र पुरे स्त्रीणां स्तनौ भातः । कीदृशौ । मणीव रत्ने इव मसृणौ कठिनकोमलौ । तथा चक्रदंपतीव । जाया च पतिश्च दंपती चक्रश्च चक्री च चक्रौ चक्रौ च तौ दंपती च चक्रदंपती चक्रवाकमिथुनम् । तौ यथा प्रेमातिरेकादन्योन्यं युतौ भवतस्तथा युतीवतिस्थूलत्वादन्योन्यं मिलितौ । उत्प्रेक्ष्येते । रोदसी द्यावापृथिव्यौ जेतुं पराभवितुं स्मरायुधे इव कामशस्त्रद्वयमिव रोदस्योरपि द्वयोर्जेतव्यत्वात् ॥ हारिणी अपि । अमूमनी । उज्झ्यते इह । इत्यत्र "ईदूदेद्विवचनम्" [१५] इत्यसंधिः ॥ एषां प्लुतानामितावपि संधिर्न स्यात् । अमी३इति ॥ केचित्तु मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ ममेति प्रयोगदर्शनान्मणी इव मणीबेत्यादावसंधिप्रतिषेधं वर्णयन्ति तदयुक्तम् । वाशब्देनोपमार्थेन सिद्धत्वात् ॥ मन्ये तु यथादर्शनं संधिमसंधि बेच्छन्ति । मणीव । दंपतीव । रोदसीखें। मणी इव ॥ अमी अमुमुईचोस्य नखाः कण्ठे इ ईक्षिताः । अ एहि त्वमु उत्तिष्ठ यद्या एवं नु मन्यसे ॥ ३०॥ ऊ ऊहस्व त्वमे अस्मिन्त्री ईदृशि रतिः कयम् । तदो अलमनेनेति सखीमाहात्र मानिनी ॥ ३१ ॥ ३०, ३१. अत्र पुरे किल काचिन्नायिका पत्यौ सपनीनखक्षता१ सी अत ए'. १ डी 'नमेतौ. २ एफ ताविति'. ३ सी डी प्रेक्षेते. एक प्रेक्षते. ४ सी डी तुं स्म'. ५ डी ति प्रायो'. ६ ए सीव ।।.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy