________________
[है• ३.२.७९.] षष्ठः सर्गः ।
४८३ विश्वस्मिन् राजन्ते ये तान्विश्वराजोपि च नृपांश्च प्रेरयति स्म । कीटक् प्रभयाङ्गकान्त्या कृत्वा वैश्वानरो नु विश्वानरस्यरपत्यमिव बिदादिषावन [६.१.४१]। वह्नितुल्यस्तथा प्रभया क्षात्रतेजसातिविश्वामित्रो विश्वामित्रं गाधिनन्दनमतिकान्तोत एव विश्वावसुना देवविशेषेण गीता कीर्तिर्यस्य सोत एव च विश्वस्मिन्सर्वत्र राजते विश्वाराट् ॥ न पैटवल्यं न च मावल्यं सूनो रणे सप्तचितीकवद्यत् । एकाक्यगादित्यनुचिन्त्य दात्राकदिपैः स स्वयमप्यचालीत्
. ॥६४॥ ६४. दात्रमिव दात्रं चिहं कर्णयोर्येषां तद्धिपैः स मूलराजः स्वयमप्यचालीत् । किं कृत्वा । अनुचिन्त्य । किमित्याह । यद्यस्माद्धतोः सूनोश्चामुण्डराजस्य पितास्यास्ति पितृवलस्तस्य भाव: पैतृवल्यं पितृयुक्तता नास्ति मातृवल्यं मातृयुक्तता च नास्ति तस्मात्परमार्थतः सूनुरेकाक्यसहाय एव सप्तचितीकवत् । सप्त चितयोस्मिंस्तस्मिनिवातिरौद्रत्वात्सतचितिश्मशानतुल्ये रणेगादिति ॥ दृष्ट्वाष्टकर्णाश्वसमैः पुरोश्चैरच्छिन्नकणैर्वलितानृपांस्तान् । स विष्टकर्णैः सह भित्रकर्णैर्दध्याविति स्वस्तिककर्णकैश्च ॥६५॥
६५. स मूलराज इति वक्ष्यमाणं दध्यौ । किं कृत्वा । अश्वैः सह तान्युद्धार्थ प्राक्प्रेरितान्पुरगावणेशादिनृपान्वलितान्पुरो दृष्टा । किंभूतैरश्वैः । अष्टकर्णाश्वसमैः खामिचिह्नार्थमष्टप्रकारौ कौँ यस्य स योश्व उच्चैःश्रवातेन समैः । तथा न छिन्नौ स्वामिचिह्नार्थ छेदा
१बी डी तबल्यं.
१ ए सी डी रस्सा. २ ए सी गाधन'. ३ सी खेतो . ४ डी 'ल्यं...मा'. ५ डी योस्मिदि. ६ वी पान्चलि. ७ ए सी मिनि चि.