SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ ४८० ब्बाश्रयमहाकाव्ये [चामुण्डराजः] महाविशिष्टं च महाकरं च सिस्वा महाघासभुगुक्षमत्तः । महाबलान्यत्वरयन्महाजातीयावलेपेन महाभुजः सः॥५८॥ ५८. स लाटो महान्प्रकारोस्य महाजातीयो महान्योवलेपो बलादिकृतोहंकारस्तेन कृत्वा महावलान्यत्वरयाद्धाय प्रेरितवान् । किं कृत्वा । महाविशिष्टं च महत्या राज्यादेः प्रधानं महाकरं च महत्याराज्यादेईस्तं च क्षिप्त्वा तिरस्कृत्य । अनेनापि स्खलनरूपमनिमित्तमस्योतम् । यतो महत्या अरण्यान्या यो घासस्तं भुते य उक्षा वृषस्तद्व. न्मत्तः । एतदपि कुत इत्याह । यतो महाभुजः॥ श्रुत्वा महद्भूतबलं तु यष्टायष्टयुत्सुकं मामहतीप्रियं तम् । चामुण्डराजोपि चचाल यष्टीयष्टयस्यसिक्रीडनकौतुकेन ॥५९॥ ५९. चामुण्डराजोपि चचाल। किं कृत्वा । मया या कृत्वा महती प्रिया भार्या यस्य तं विशालभूवधूकं तं तु लाटं पुनः श्रुत्वा । किंभूतम् । यष्टायष्टि यष्टिभिश्न यष्टिभिश्चे मिथः प्रहृत्य कृते युद्ध उत्सुकमत एव युयुत्सयानेकस्थानकेभ्यो मिलितत्वादमहन्महद्भूतं संपन्न बलं सैन्यं यस्य तम् । युधि प्रगुणीभूतमित्यर्थः । केन हेतुना चचाल । यष्टीयष्टि यष्टिप्रहरणोपाधिके युद्धेस्यस्यसिपहरणोपाधिके युद्धे च वि. षये क्रीडनकौतुकेनाविशूरत्वेनास्य युद्धस्य सुखसाध्यमानित्वादत्यन्तामिलाषुकत्वाच क्रीडाकुतूहलेन ॥ महाकरम् । महापास । महाविशिष्टम् । इत्यत्र “बियाम्" [६९] इति डाः। १सी तीयोव. १५ सी महोजा. २ ए सी डी भुक्ते य. ३ डी यष्टयुत्सुकं य. ४ ए सी टिमिय. ५ एसी श्व मथः. ६ ए सी स्थानेके. ७बी युधे प्र. ८ सी क्रोडान
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy