SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ [है० ३.२.५६.] षष्ठः सर्गः । व्यसर्जयद्वेत्र्यथ हैमयष्टिः सेभान्कठीमातृकलाटभट्टान् । तेयुः सलज्जाकठमानिमातृका: पूः सुकेशीललनैईसद्भिः ॥ ४३ ॥ ४७१ ४३. अथ हैमयष्टिः स्वर्णमयदण्डो वेत्री सेभान् गजयुक्तान् कठ्यः शाखाध्ययननिमित्त कठ्यपदेशभाजो ब्राह्मण्यो मातरो येषां ते ये लाटभट्टा लाटाधिपस्य विशिष्टभूता द्विजास्तान्व्यसर्जयन्यक्कारपूर्वं प्रतिप्रेषितवान् । ततस्ते लाटभट्टा अयुर्लाटपार्श्वे गताः । किंभूताः सन्तः । हसद्भिः पूःसुकेरैयः पुरस्य प्रवरचिकुरखियो ललनाः कान्ता येषां तैरुपलक्षिताः । न्यक्कृतत्वात्पौरतरुणैरुपहस्यमाना इत्यर्थः । अत एव सलज्जा अकठमानिन्योकठीरात्मनो मन्यमाना मातरो येषां ते ॥ वैदिशीमातृकम् । अत्र " तद्धितः स्वर" [ ५५ ] इत्यादिना न पुंवत् ॥ स्वरेति किम् । नैयङ्कवबुद्धितायाः ॥ अन्ये तु वृद्धिमात्र हेतोर्निंगत स्वद्धितस्य पुंवप्रतिषेधमिच्छन्ति तन्मते नैयङ्कवीमतिम् ॥ अरक्तविकार इति किम् | माञ्जिष्ठपटीकः । हैमयष्टिः ॥ सुकेशीललनैः ॥ जाति | कठीमातृक । इत्यत्र “स्वाङ्गात् ” [ ५६ ] इत्यादिनी न पुंवत् ॥ स्वाङ्गादिति किम् । व्यकठमानिमातृकाः । अमानिनीति किम् । अकठमानि ॥ भव्याप्रियां रौचनिकोत्पर्टी नु तन्वंस्त्विषं द्रावकवीक्षणीयाम् । हरेरिवैकादशमूर्तिरेषोन्येद्युः कुमारानुगतः प्रतस्थे ॥ ४४ ॥ ४४. अन्येद्युरेष मूलराँजः कुमारानुगतः प्रतस्थे लाटास्कन्दनाय १ ए सी डी न् काव्य: . २. ए सी स्तान्विस. ४ वी 'तुकः । म. ५ ए सी 'तोणित'. ६ ए सी नपुं. ३ डी 'श्यः प्र'. ७ सी 'राजकु
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy