SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ ४६४ व्याश्रयमहाकाव्ये [ चामुण्डराजः ] स्वसादुहित्रोः क्षपकं पितापुत्रयोश्च नामुं शुकपिच्छपुच्छम् । जिघृक्षतो दक्षिणयापि होतापुत्रावतीन्द्रावरुणः किमु त्वम् ॥ ३३ ॥ ३३. उ हे राजन्नमुं गंजं होतापुत्रावृत्विक्तत्पुत्रश्च याचकावपि दक्षिणयापि धर्मेणापीत्यर्थः । न जिघृक्षतः । यतः स्वसादुहित्रोः क्षपकं पितापुत्रयोश्च क्षपकं विनाशकम् । एतदपि कुत इत्याह । यतः शुकपिच्छपुच्छम । नीलपुच्छो हि गजः कुलक्षयाय स्यात् । किं पुनरतीन्द्रावरुणो महर्द्धिकत्वादिगुणैरिन्द्रं वरुणं चातिक्रान्तस्त्वं जिघृक्षसि । नैवेत्यर्थः : ।। वाय्वग्निभः कर्मभिराग्निसौमाग्ना वैष्णवः कृष्णनखे गजेस्मिन् । सुधेभशान्ति रचयद्विजोभीषोमोपमोनीवरुणोपमो वा ॥ ३४ ॥ ३४. द्विजः पुरोहितः कृष्णनखेस्मिन् गजे विषये कर्मभिः शान्तिक्रियाभिः कृत्वेभशान्तिम् । इभशब्देने भम्धकृष्णन खत्व कुलक्षणजनिता राज्यराष्ट्रादेरुपद्रवा उपचारादुच्यन्ते । तेषां शान्तिमुपशमकर्म सुधा निरर्थकमेव रचयेत् । संभावनेत्र सप्तमी । नोपशमयितुं शक्तः संभाव्यत इत्यर्थः । कीदृशोपि । तपोमन्त्रादिप्रभावोत्थदिव्यशक्त्या वाय्वग्निभो वायुदेवताग्निदेवतातुल्यमहिमानीषोमोपमोनीवरुणोपमो वा । वाय्बनी अग्नीषोमावग्रीवरुणौ च द्वौ द्वौ सहचरौ देवभेदाः । किंभूतैः कर्मभिः । आग्निसौमाग्नावैष्णवैरग्नीषोमावमाविष्णू च सहचरौ देवभेदौ देवते येषां तेः ॥ १ ए सी 'वै कृ. १ एसी गजा हो. २ बी श्रोः पि. ३ ए बी सी नैवेत्य. ४ सी द्विज पु. ५ सी 'नि'. ६पसी शक्त सं. ७ ए सी मितु ८ बी मीवार बी मिसोमा ११ ए सी डी बते. ९ ए सी हरौ १०
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy