________________
४४४
याभयमहाकाव्ये
[चामुण्डराजः]
देषं परित्यज्य परस्परेण परस्परं चापतिबाधनेन । अन्योन्यमुत्कर्षितया च मित्राणीवात्र विद्याश्च गुणाश्च तस्थुः॥२॥
२. मिथो विरुद्धा अपि धर्मशास्त्रकामशास्त्रादिविद्या दानाविकत्यनत्वादयो गुणाश्च मित्राणीवात्र कुमारे तस्थुः । कथमित्याह । परस्परेण सह द्वेषमेकत्रानवस्थानरूपं विरोधं परित्यज्य । तथा पर• स्परं परस्परेण कृत्वा परस्परार्थ वा परस्परस्मात्सकाशात्परस्परमाश्रित्य वा परस्य कर्मणो वा परस्परस्मिन्वा प्रविबाधनेनोचिवे स्वस्वकाले द्वयानामप्यासेव्यमानत्वादपीडनेन । तथान्योन्यं यथार्थसंबन्धम् । सर्वविभत्त्यर्थः पूर्ववद्भावनीयः । एवमपि । उत्कर्षितया च मियो विशेषकत्वेन च हेतुना । तथाहि । धर्मशास्त्रविद्यानुसारेण धर्मप्रवृत्ति गफलत्वेन विशिष्टकामहेतुरिति कार्यद्वारेण धर्मशास्त्रविों कामशास्त्रविद्योत्कर्षिणी । कामशास्त्रविद्यानुसारेण च कामप्रवृत्तिः संततिवृद्धिफलत्वाद्धर्मवृद्धिहेतुरिति कार्यद्वारेण कामशास्त्रविद्यापि धर्मशास्त्रविद्योत्कर्षिणी । तथा दानेनाश्लाघा विशिष्यतेश्लाघया तु त्याग इति । मित्राण्यपि मिथो द्वेषं त्यजन्ति मिथः कलहादिना न बाधन्ते च मिथो गुणोत्कीर्तनादिनोत्कर्षयन्ति च ॥ शक्तिक्षमे यौवनसंयमित्वे युते न दृष्टे इतरेतरां हि । तथापि ते वाचनीविभाज्यन्योन्या चिरं चक्रतुरत्र योगम् ॥३॥
३. यद्यपि शक्तिक्षमे यौवनसंयमित्वे तारुण्येन्द्रियजयौ च हि स्फुटमिवरेतरामन्योन्यं युते संबद्धे मिथो विरुद्धवान दृष्टे । यद्वा ।
१ सी र वाम. २ ए सी विराज्य १९ सी डी रस्य. २ ए सी डी पत्ते'. ३ डी विधो का ४बी 'पापि का'.५पसी यजियो.