SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ३८९ [ है• ३.१.५१.] पञ्चमः सर्गः । असिघातम् । शम्यापातम् । इत्यत्र "तृतीयोकं वा" [५०] इति वा तत्पुरुषः॥ अहितानकृतामूर्यपश्यान्स शरदृष्टिभिः । अपुनर्गेयवाक् कुदोश्राद्धभोजी द्विजो यथा ॥४८॥ ४८. सोर्बुदेश्वरोहितानरी शरवृष्टिभिः कृत्वा व्याप्तव्योमत्वात्सू. र्यमपि न पश्यन्त्यसूर्यपश्यास्तानकृत चक्रे । कीहक्सन् । क्रुद्धोत एव पुनर्न गेया न वक्तुं शक्या वाग्यस्मिन्स तथातिरौद्र इत्यर्थः । श्लेषो. पमामाह । यथाश्रौद्धभोजी श्राद्धं न भुत इतिव्रतोतिनैष्ठिक इत्यर्थः । द्विजः कुद्धोत एवापुनर्गेयवाक्सञ् शरवृष्टितुल्यैः शापवचनैरहितानपराद्धनसूर्यपश्यानन्धानकरोति । अतिनैष्ठिकद्विजो हि कुपितः सत्यशाप एव स्यात् ॥ खक्षोलवणभोजीवाकार्णवेष्टकिकान्स तान् । अवत्सीयानवध्यनोभि नासान्तापिकोभवत् ।। ४९ ॥ ४९. अवध्यान्वधानर्हान द्विजगोवत्सादीन्देत्यत्वेन मन्ति ये तानवध्यत्रोत एवावत्सीयान्न वत्सेभ्यो हितांस्तान्दैत्यानभि इत्यंभूतत्रामिः । सोर्बुदेश्वरः सांतापिक: "तस्मै योगादेः शके" [६.४.९४] इतीकणे। सं. तापाय न शक्तो नाभूत् । द्वौ नबौ सातिशयमर्थ गमयत इत्यत्यन्तं संतापाय शक्तत्वप्रकारमापनोभवत् । यतोकार्णवेष्टकिकान्कर्णवेष्टकाभ्यां न शोभमानान्कर्णाद्यगावयवच्छेदेन कुण्डलशोभारहितान् । स च कीहक् । स्वक्षो जितकाशित्वेन प्रमुदितत्वात्पटुविकसितनेत्रोलवणभो. जीव । यथा लवणमभुञ्जानो रक्तााद्रेकोत्थरोगाभावेन स्वक्षः स्यात् । अर्बुदेश्वरं हसिताक्षं वीक्ष्य प्रहारजर्जरिताङ्गाः शत्रवः संवेपुरित्यर्थः ।। १ सीमादं. २ ए सी ग् । सांता'. ३ बी तकांसित्वे'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy