SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ૨૮૨ व्याश्रयमहाकाव्ये [ मूलराज: ] न्वर्जयित्वापात चं प्रहारादिना पीडितांश्च वर्जयित्वा । तथा यावद्रिपु यावन्तो रिपवस्तावैत इत्यर्थः । तथा आजयं विजयं मर्यादीकृत्य ॥ 9 सेना मागर्बुदं राज्ञां बहिर्व्यूहं प्रतिद्विपम् । अभ्यश्वं च प्रसृत्यानुजम्बुमालि स्थिता बभौ ॥ ३७ ॥ 1 ३७. प्रागर्बुदमर्बुदाद्रेः प्राक्पूर्वदिग्वासिनां राज्ञां मूळराजनृपाणां सेना बभौ । कीदृक्सती । बहिर्व्यूहं मूलराजीयाञ्चक्रगरुडादेर्व्यूहाद्वहिर्भूता । तथा प्रतिद्विपमभ्यश्वं च प्रसृत्य रिपूणां द्विपानश्वांश्च हैक्ष्यीकृत्याभिमुखं विस्तीर्यानुजम्बुमालि स्थितातिबहुत्वाज्जम्बूमाल्या उक्षणभूताया आयामेनावस्थिता । अर्बुदसेनातिशूरत्वाद्व्यूहान्निर्गत्य युद्धार्थ शत्रूनभि प्रसृतेत्यर्थः ॥ कचाकचि । कुन्ताकुन्ति । इत्यन्त्र " तत्रादाय” [२६] इत्यादिनाव्ययीभावः ॥ लोहितगङ्गम् । इत्यन्न “नदीभिर्नानि” [२७] इत्यव्ययीभावः ॥ पञ्चनदम् । त्रिगोदावरम् । इत्यत्र "संख्या" [२८] इत्यादिनाव्ययीभावः ॥ अन्ये तु पूर्वपदप्राधान्येव्ययीभावो गोदावरीणां त्रित्वं त्रिगोदावरम् । समाहारे तु द्विगुरेवेत्याहुः । द्वयोर्गोदावर्योः समाहारो द्विगोदावरि ॥ द्विमुन्यस्य । सप्तकाशि स्वराज्यस्य । इत्यत्र "वंश्येन" [२९] इत्यादिनाब्ययीभावः ॥ यदा तु विद्यासद्वतामभेदविवक्षा तदैकसुनि धनुर्वेदमित्यादि सामानाधिकरण्यं स्यात् ॥ १ सी 'हं मूलराजी'. एसी च प्राहा. २ ए सी डी बन्° ३ ए सी डी ब्क्षीक. ४ सी डी क्षणामू
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy