SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३६८ व्याश्रयमहाकाव्ये [ मूलराज: ] तेजो विजय: सूचितः शुभनिमित्तत्वात् । कीदृशी । युद्धे रणकर्मणि शिकाज्ञातपण्डिता तथा यते निषादिनां पादकर्मणि ज्ञका तयौजो बलं वा तदेव स्वं धनं यस्याः सात एव जय एव स्वं धनं यस्याः सात एवे सुरेभस्यैरावणस्य स्वकाज्ञातज्ञतिरिव तथानेक जन्तु संहारित्वाद्रौद्रार्कीरत्वाच्च मृत्योर्यमस्य स्विका ॥ अजिकाचर्मपर्याणारं हन्तुमजकामिव । तत्वरेश्वचमूः सेषुभस्त्रिका साम्बुभस्त्रिका ॥ १० ॥ १०. अश्वचमूर्मूलराजीयाश्वसेनारिमैजकामिव कुत्सितां छागीमिव हन्तुं तत्वरे रयेणाचलन् । कीदृशी । अज्ञाता छाग्यजिका तस्यावर्मणा पर्याणं पल्ययनं यस्याः सा । तथा सेषवो बाणभृता भस्त्रास्तूणा यस्यां सा तथा सहाम्बुभस्त्रया जलदृतिना वर्तते या सा । तथाज्ञाता साम्बुभस्त्रा साम्बुभवका ॥ क्षत्रियिकाः क्षत्रियकापुत्रांश्चटकिकाचटौ । द्विषच्चटककाश्येनानृचुः सुनयिका युधि ॥ ११ ॥ ११. क्षत्रियिका अज्ञातक्षत्रियस्त्रियो द्विषचटकेकाश्येनान् शत्रुकुत्सितचटकासु श्येनतुल्यान् क्षत्रियकापुत्रान्क्षत्रियान्युधि युद्धार्थमूचुः युद्धं क्रियतामित्यूचुरित्यर्थः । कीदृश्यः सत्यः । अज्ञाताः सुनया: सुनयिका: शोभननीतिज्ञी अत एव चटौ चाटुवचने विषये चटकिका अज्ञातचटकातुल्याश्चाटुकारिण्यः । एतेन मूलराजीयक्षत्रियस्त्रीणामपि युद्धविषय उत्साह उक्तः ।। १ बी काः ॥ २ ए सी युधिः । १ सी युधेर .. २ एसी तेजे वा. तिब. ५ ए सी 'न्तुसहा ६ ए सी ८ प सी डी पल्य ९ डी टका ३ बी व च सु. ४ ए सी शारि कारित्वा ७ ए बी सी डी 'मजिका. १० बी युक्तार्थ. ११ बी 'शात '.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy