SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ [है० २.४.२७.] चतुर्थः सर्गः। ३३१ षया द्विपुरुषप्रमाणया कुन्तयष्टया कृत्वा भान् शोभमानः । तथा यथाद्रिींल्यौषधिविशेषेणोपलक्षितः स्यादेवं नीलया नीलवर्णयोचैरतिशयितया पट्या वस्त्रेणाथ तथा नील्या हरितयावन्न्याश्वयोपलक्षितोत एवातिरोहिणीशशत्रू राहुमतिक्रान्तः । कागादित्याह । रेवत्यां रेवत्या चन्द्रयुक्तया युक्ते काले द्वादशे चन्द्र इत्यर्थः । लक्षो हि नाम राशिनाश्विनीजातत्वान्मेषराशिजातो रेवत्यां च चन्द्रो मीनराशौ स्यादनेन चास्यावैश्यंभावी मृत्युः सूचितः । एतेन मित्रबलागमोक्तिः ।। त्रिकोण्ड्या । इत्यत्र "काण्डात्" [२४] इत्यादिना डीः ॥ प्रमाणादिति किम् । दशकाण्डया ॥ अप्रमाणादपीच्छन्त्यन्ये । नवकाण्ड्या ॥ अक्षेत्र इति किम् । द्विकाण्डाः क्षेत्रगुवः ॥ षट्पुरुषीः । द्विपुरुषया । इत्यत्र "पुरुषाद्वा" [२५] इति वा डीः ॥ रेवत्याम् । रोहिणी । इत्यत्र "रेवत" [२६] इत्यादिना डीः॥ नील्यावन्त्या । नील्या । इत्यत्र “नीलोत्" [२७] इत्यादिना डीः ॥ प्रा. प्योषध्योरिति किम् । नीलया पठ्या ॥ नीलीनीलाप्रबद्धलूनीवद्धविलूनामामकीषु जाताः । एयुस्तस्यात्मजाः स्वभूभ्यो ज्ञात्वा समयं केवलीविदोनु ॥४८॥ ४८. प्रबद्धा चासौ लूना च प्रवद्धलूनी । बद्धा चासौ विलूना च बद्धविलूना । नील्यादिनामका ग्राहारे र्यास्तासु जातास्तस्य ग्राहारेरात्मजाः पुत्राः केवलीविदो नु केवल्यो ज्ञानशास्त्राणि तज्ज्ञा इव समय रणकालं ज्ञात्वा स्वभूभ्यः स्वदेशेभ्य एयुः । एतेन मौलवलागमनोक्तिः ।। १एसी दो नुः ॥ १बी सी द्रिनील्यौ०. २ ए सी वस्यं मा'. ३ ए सी डी काण्डा। इ०. ४ ए बी सी डी ईत्या । नी. ५ए सी डी लादि'. ६ सी मय र.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy