________________
[है. २.३.८७.] चतुर्थः सर्गः। येश्च णिगि भावेनटि नमा बहुव्रीहिः । लोकमध्ये प्रकाश्यमेतत्कारकनिरहेणावर्धनीयं चेत्यर्थः । कुकर्मायत्तोयं तदनेन सह का मे मैत्रीत्यर्थः ।। अमुना परिवेपनेन भन्नः परिपावनपरिभापनः प्रभासः। दुषख्याणभकामनेनान्तहननत्वं सुप्रगम्यमानः ॥ ३० ॥
३०. परिपावनः पापमलापनेतृत्वात्पावित्र्यहेतुर्यः परिभापनो लयादिसंपादनेन शोभापादनहेतुः स प्रभासस्तीर्थममुना पाहारिणा ममः । यतोन्तर्हननत्वमन्तहन्यतेस्मिन्नित्यन्तहननो देशो यत्र मध्यभागे लोको हन्यते तद्रावं मध्यभागे लोकघातमित्यर्थः । सुप्रगम्यमान: प्राप्यमाणः। कीदृशेन सता । दुष्प्रख्याणे दुष्टख्याती प्रकामनमभिलाषो यस्य तेनात एव परिवेप्यते जगद्येन तेनै परिवेपनेन प्रच्छन्नधाटीप्रदानादिनाखिललोककम्पकेन । मध्येलोकं प्रता प्रभासदेशोमुनोपद्रुतोतोमुना सहालं मैत्र्येत्यर्थः ॥ अन्तरयनता जहौ सुराष्ट्रा येनान्तरयणवारिणा जनानाम् । सोन्तहणनात्कयं छुपेक्ष्यः सर्पिष्पानपावनद्धपिण्डः ॥३१॥
३१. जनानामन्तरयणं मध्ये गमनं प्रच्छन्नधाटीप्रदानादिना वारयतीत्येवंशीलो यस्तेनान्तरयणवारिणा सता येन कृत्वा सुराष्ट्रादेशोन्तरयनतामन्तर्मध्ये सुस्थत्वेनाय्यते गम्यते यस्यां सान्तरयनी तद्भावं जही तत्याज । येन कृत्वा दुर्गमाभूदित्यर्थः । स पाहारिः सर्पिष्पानेन प्रावनद्धं पीनं पिण्डमङ्गं यस्य सोतिबलिष्ठं इत्यर्थः । हि स्फुटमन्तईणनात्सुराष्ट्रामध्ये वधात्सकाशात्कथमुपेक्ष्यो मोच्यः सुराष्ट्रामध्ये वध्य एवेत्यर्थः ॥
१बी दावम'. २ डीन प्र. ३५ सी मैत्रेत्य. ४ ए सी डी वनवा. ५वी ध्ये स्वस्थ. ६ ए सी 'स्या सारतय.