SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३०० व्याश्रयमहाकाव्ये [ मूलराब: ] खदिरवणाग्रेवणस्यपीयुक्षावणकार्श्यवण स्थितैर्नृपैर्नः । लक्षवणगतैश्व विद्रवः किं शरवणशिग्रुवणेश्वरैश्व चक्रे ॥ ४ ॥ ४. स्पष्टम् । किं तु पीयुक्षा द्राक्षा । कार्याः शालाख्या वृक्षाः । खदिरवणं चाग्रेवणं च तत्स्थाच ते पीयुक्षावणकार्श्यवणस्थिताश्च तैर्नोस्माकं नृपैर्विद्रवः उपद्रवः । शिग्रुः शोभाञ्जनः ॥ बदरीवणवन कण्टकास्ते शिग्रुवने बदरीवने च नोत्र । माषवणान्वेषको न नीवारवणे माषवेनं लभेत जातु ॥ ५ ॥ ५. यथा बढ़रीवणे कण्टकास्तीक्ष्णामा बदर्यवयवा भवन्ति तथात्रास्मिन्नोस्माकं शिम्बने बदरीवने चोपलक्षणत्वात्खदिरवनादिषु च ते तव कण्टकाः शत्रवो न भवन्ति । दृष्टान्तमाह । माषवणान्वेषक: पुमान्नीवारवणे वनत्रीहिवनमध्ये जातु कदाचिदपि न माषवनं लभेत । एवमस्माकं युष्मन्मित्राणां वनेषु युष्मच्छत्रवो न सन्त्यतः खदिरवणादिवनस्थास्मन्नृपकृतोपद्रवस्याभावादयमागमने न हेतुरित्यर्थः ॥ नीवारवनोल्लसद्विदारीवन सुरदारुवनेरिकावनेषु | गिरिणद्यतिरंहसा मृगव्ये गिरिनद्यां नु सुनीरपाणमागाः ॥ ६ ॥ ६. उल्लसद्विदारीवनमुद्यच्छालपर्णीलताविशेषवनम् । सुरदारुवनं देवदारुवनम् । इरिकावर्नमोषधिविशेषवनम् । द्वन्द्वे तेष्वाधारेषु मृगव्य आखेटार्थम् | न्विति पृच्छायाम् । आगा आगतोसि । केन कृत्वा । गिरिणद्यतिरहंसा पर्वतोद्भूतापगावदतिवेगेन । कथम् । गिरिनद्यां जम्बूमाल्यां शोभनं नीरपाणं जलपानं यत्रागमने तद्यथा स्यादेवम् । I १ बी सी पैन ।. २ एसी व ल १ बी 'लाक्षा बृ° २ बी न सन्ति ३ ए सी 'ताचवि' ४ वी 'नमौष'. · •
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy