SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये उत्सुकाः करदानेवबद्धाः कृष्या पशुष्वपि । व्रीहीन् द्विद्रोणान् द्विद्रोणान् द्विद्रोणैश्च तिलान्ददुः ॥ १८॥ १८. कृष्या महीकर्षणे पशुष्वपि गोमहिष्यादिषु चावबद्धा नित्यप्रसक्ता अत एव करदाने । कर: कृषिपशुचारणादिकृतराजकीयभूम्युपभोगहेतुको राजग्राह्यो भागः । तस्य दान उत्सुका अत्यन्तं प्रसक्ता असाधारणविशेषंणोपादानाद्वाम्याः करोग्राहकराजपुरुषेभ्यो ददुः । कान् । व्रीहीन । किंभूतान् । द्रोणञ्चतुःषष्टिः कुडवाः । द्वौ द्रोणौ मानमेषां ‘“मानम्” [६.४.१६८] इतीकणो “आनाभ्यद्विभुब्” [६.४.१४० ] इति लुपि वीप्सायां द्विरुतौ च द्विद्रोणाद्विद्रोणान् । तथा द्विद्रोणैच तिलान् । चो भिन्नक्रमे । द्विद्रोणमानाद्विद्रोणमानांस्तिलांश्च । शरदि हि ग्राम्याः सस्येषु निष्पन्नेषु राजकरं ददते ॥ ४ क्रौञ्चान्सहस्रं सहस्रं पश्चकेनान्वजीगणन् । सहस्रेण शुकान् गोप्यः पञ्चकं पञ्चकं रसात् ।। १९ ॥ २२० १ श्रंसह प. २ ए बी श्रेण. २ १९. गोप्यः क्षेत्ररक्षिका नार्यः सहस्रं सहस्रं कौवान्पक्षिभेदान् रसात्कौतुकात्पञ्चकेन पश्च संख्या मानमस्य "संख्या डते:०” [६.४.१३०] इत्यादिनाके पञ्चकः संघस्तेनान्वजीगणन्पश्य पश्च कृत्वा गणितवत्य इत्यर्थः । तथा सहस्रेण सहस्रसंख्यान् सहस्रसंख्यान् शुकान् । पथ्वकं पश्वकमन्वजीगणन् । पञ्चकं पञ्चकमित्यत्र शुकसामानाधिकरण्येपि पञ्चकशब्दाद्राह्मणाः संघ इतिवदेकवचनम् । शरदि हि क्रौभ्वाः कौवाः शुकाच बाहुल्येन स्युः ।। १ एफ् दाप्राम्याः. ५ एफ् स्रं क्रौ .. [ मूलराज:] २ एफ् 'टिकु . ३ बी दिः पु° ४ सी 'दि प्रा.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy