SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ [है० २.२.४५.] तृतीयः सर्गः । २१७ कार्येनाब्जवनोद्भेदे सुखेनास्थुः सितच्छदाः। दुःखेनाब्दजले प्राप्ये कष्टेनासंश्च चातकाः ॥ १३ ॥ १३. कायेन सामस्त्येन । उद्भेदे विकाशे । अब्दजले मेघजले । शिष्टं स्पष्टम् ।। सस्येष्वाप्येष्वनायासेनाप्यनायासमम्बुनि । पान्थाः पथि सुखं मोषुर्दुःखमूषुश्च तत्मियाः॥१४॥ १४. प्राचुर्येण निष्पन्नत्वाद्धान्येषु सुखेन प्राप्येषु तथा जलापूर्णतडागादिकत्वात्सुखेन जले प्राप्ये सति पान्थाः पथि सुखं प्रोषुर्देशान्तरं गतास्तत्प्रियाश्च पान्थभार्याश्च दुःखमूषुविरहात्कष्टेने स्थिताः ।। क्षौमैः सह । इत्यत्र "सहार्थे" [५] इति तृतीया ॥ अर्थग्रहणात् नभसा समम् । अतामा । सानुभिः सान्तम् । मुखैर्युगपत् । हासैः सार्धम् ॥ अर्थाद्म्यमाने अधरैः स्पर्धाम् । न्यक्षेण स्पर्धाम् । कास]नाजवनोद्भेदे । इत्यादावपि सहार्थोस्ति ॥ सुखेनौस्थुः । दुःखेन प्राप्ये । कष्टेनासन् । अनायासेनाप्येषु । इत्यादौास्यादिक्रियाभिः सह सुखादेः सहार्थोस्ति । क्रियाविशेषणस्वविवक्षायां तु द्वितीयैव । अनायासमाप्ये । सुखं प्रोषुः । दुःखमूषुः॥ जात्योपोनु तिमीन्वप्रेस्थात्मकृत्या शठो बकः । अक्ष्णा काणः पदा खञ्जः खलाः प्रायेण मायिनः॥१५॥ १५. जात्या स्वभावेनोग्रः क्रूरस्तथा प्रकृत्या स्वभावेन शठो मा १ए प्रोखुर्दुः . १डी ले । शेषं स्प. २ सी डी °न प्राप्ये स्थि. ३ सीनाप्रा. ४ डी 'प्ये । . ५ एफ दावस्या. ६ डी वाप्यादि. २८
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy