SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २१२ द्याश्रयमहाकाव्ये [ मूलराजः ] दिनं रक्षन्त्यः । क्रोशं व्यस्तारयन् । अत्र "काल" [४२] इत्यादिना द्वितीबा ॥ भावादपीच्छन्त्यन्ये । गोदोहं नार्तिर्मेयुः ॥ 1 पारायणं नवाहेनाधीत्य क्रोशेनं चाशिषम् । गोदोहेन द्विजा याज्यानभ्यषिञ्श्चन्यथाविधि ॥ ६ ॥ 3 ६. गोदोहेन गोदोहमात्रकालव्याप्त्या यथाविधि वेदोक्तशान्तिमन्त्रोच्चारणादिविध्यनुसारेण याज्यान्नृपामात्यादियजमानान् द्विजा अभ्यषिञ्चन्नस्नपयन् । किं कृत्वा । नवाहेनाश्विनश्वेतप्रतिपदादिदिननवकस्य नवरात्रनाम्नो व्याप्त्यों पारोय्यते गम्यतेनेन पारायण वेदमन्थमधीत्याध्ययनेन समाप्य पूर्ण गुणयित्वेति यावत् । तथा क्रोशेन यावता कालेन क्रोशो गम्यते क्रोशप्रमाणक्षेत्रव्यात्या चाशिषं च सप्तशतिकाभिधां सप्तशतप्रमाणां चण्डिकास्तुतिं चाधीत्य गुणयित्वा । शरदि हि पारायणिका द्विजा आश्विनश्वेतप्रतिपदि देवायतनेषु दर्भशलाकैकशतमयब्रह्ममूर्तेरप्रतः कुङ्कुमादिसुरभिद्रव्याढ्य जलभृतं कुम्भं स्थापयित्वा ततो महानवमी यावदभुक्ता ब्रह्मचारिणो भूशायिनः पारायणं कार्येन तथाधीयते यथा नवमे दिने पूर्णीस्यात्तथा महाप्रभावत्वेन सप्तशतिकां च चण्टिकास्तुतिं महाशिषं गुणयन्ति । मार्कण्डेयपुराणे चण्डिकोक्तिः || शरत्काले महापूजा क्रियते या च वार्षिकी । तस्यां ममैतन्माहात्म्यमुच्चार्य श्राव्यमेव च ॥ १॥ एतन्माहात्म्यं समशतिकोक्तम् । तदेवं पारायणं महाशिषं चाधीत्य 91 १ सी एफ न वाशि . · · १ सी डी दोहनं ना° २ एफ् मप्ययुः ॥ ५ ए सी 'ते तेन. ६ बी सी डी ८ पर माणच. ९ सी एफ 'वमी या एतदेव परा. ११ ए एफ देव पा ३ सी डी 'धि देवोक्त'. ४ बी णं देवग्र° ७ सी डी पूर्व गु. १० सीम् । एवेदे एवं.. डीम् ।
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy