________________
द्याश्रयमहाकाव्ये तृतीयः सर्गः।
॥ अहम् ।। अथ विजययात्रानुकूलं शरत्कालं पञ्चाशता श्लोकैवर्णयति ।
अथ द्यामभि शुभ्राभ्रा सुनीराभि सरः सरः ।
अभि दिग्विजयं साधुरुपतस्थे शरत्क्षणात् ॥ १॥ १. अथ मन्त्रावसरानन्तरं क्षणादाहरिवभिषेणनविषयचिन्तासमकालमेव शरदुपतस्थे विजृम्भिा । किं भूता । द्यां गगनमभिलक्ष्यीकृत्य शुभ्राभ्रा विशदमेघा । एतेनाभ्राणामवार्षुकत्वेनादित्यातपनिवारकत्वेन चास्या: सुखदतोक्ता । तथा सरः सरोभि तडाँग तडागमभिव्याप्य सुनीरा निर्मलजला । एतेन पेयजलत्वोक्तिः । अत एवाभि दिग्विजयं साधुर्विजययात्राविषये साधुत्वप्रकारमापन्ना । एतेन राज्ञो प्राहरिपुविषयाभिषेणनमनोरथस्य शीघ्रभाविनी सफलतोक्ता ॥
लक्षणे । द्यामभि । वीप्स्ये । अभि सरः सरः॥ इत्थंभूते। अभि दिग्विजयम् । इत्यत्र “लक्षण" [३६] इत्यादिना द्वितीया ।
बभुः प्रति नृपं ग्रामपतिं पर्यनु कर्षकम् । प्रति ग्रामं दिशं पर्यनु क्षेत्रं सस्यसंपदः ॥२॥ २. नृपमित्यादिषु सर्वेषु जातावेकवचनम् । प्रति प्रामं दिशं परि
१सी जयाया'. २ ए सी बाहारि'. ३ सी डी ये चि. ४ सीडी 'ता यां. ५ ए सी डी एफ लक्षीकृ. ६ ए सी डी °न वास्याः. ७ सीडी डागम. ८ सी डी एफ वीसे । अ.