SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १९८ व्याश्रयमहाकाव्ये अथ प्रभुकार्ये येसत्यमहितं च भाषन्ते तान् दूषयति ॥ कीर्तेः प्रदीव्यन्ति कुलं च दीव्यन्त्यात्मोन्नतेस्ते किल ये हि मन्त्रे । दीव्यन्ति कूटं चटुना च लोभमध्यासिताः पापमधिष्ठिताश्च ।। ९८ ।। [ मूलराज: ] I I ९८. ये मन्त्रिणो मत्रे कूटमलीकेन चटुना च चाटुकारेण च दीव्यन्ति व्यवहरन्ति । कीदृशाः सन्तः । हि स्फुटं लोभं धनादिगामध्यासिता आश्रिता अत एव पापं वञ्चनाप्रयोगमधिष्ठिताश्च । लोभान्मन्त्रे सत्यं हितं च न भाषन्त इत्यर्थः । ते । किलेति सत्ये । कीर्तेः कुलं च प्रदीत्र्यन्ति । तथात्मोन्नतेः स्वमहत्त्वस्य दीव्यन्ति । त्र्यवि*ये तपणत्वे वा विनियुञ्जते कीर्ति कुलमात्मोन्नतिं च निर्गमयन्तीत्यर्थः । तन्मत्रो हि किंपाकफलमिव मुखे मधुर आयतौ नायकस्य महाविपद्धेतुरित्येतेषां कीर्त्यांच्छिनत्ति ॥ अथ यः प्रभुकार्ये सत्यवादी तं वर्णयति ॥ भर्तुः स चेतोधिशयीत सोधिवसेत्सभामावसतां च मौलिम् । गुरोः समीपं स उपोषितश्च ब्रूयात्सदोनूषितवान् स्फुटं यः ॥ ९९ ॥ ९९. सदो मत्रमण्डपमनूषितवानध्यासितो यः स्फुटं सत्यं ब्रूयात्स नरो भर्तुः स्वामिनश्वेतोधिशयीताध्यासीत । तथा सभामावसतामाश्रयतां सभासदां मौलिमुत्तमाङ्गं मुकुटं वां सोधिवसेदारोहेत् । सर्वकार्येषु प्रष्टव्यतय सभ्येषु मौलिरिवोत्तमः स्यादित्यर्थः । तथा स गुरोः समीपमुपोषितश्च गुरुकुलं सेवितवांश्च तेनैव विद्या सम्यगधीतेत्यर्थः ॥ १ सी कीर्तिः प्र. १ बी °ताश्च श्रिताश्च. एफ ताश्चाश्रिताश्च. २ सी डी क्र. ३ सी डी 'यतीत्य'. ४ बी एफ मुखम ५ बी एफ व्हेत स° ६ डी या सैन्येपु.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy