SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १८६ द्याश्रयमहाकाव्ये [मूलराजः] तथा गामेवाधर्म पापमनुशास्ति शिक्षयति पापे व्यापारयतीत्यर्थः । तथा मुनीन साम मधुरवाक्यं नाह निर्भर्त्सयतीत्यर्थः । तथा मुनीनेव वृत्तिं भिक्षाचर्योञ्छादिकां जीविकां रुणद्धि निवारयति । तथा मुनीन् सत्पथं न्यायमार्ग न पृच्छति न कथापयतीत्यर्थः । तथा मुनीनर्थ द्रव्यं याचते ॥ रत्नानि रत्नाकरमुच्चिनोति निधीन् कुबेरं विजिगीषतेसौ । प्राणान्विपक्षयुधि भिक्ष्यते च स्वभभावं वत नीयते च ॥ ८१॥ ८१. असौ ग्राहारी रत्नाकरं सागरं रवान्युश्चिनोति वियोजयतीत्यर्थः । एतेन कोशसंपदुक्तिः । तथा कुबेरं धनदं निधीन् निधानानि विजिगीषते । एतेन संपूर्णेपि कोशे तद्वृद्धौ निरुद्यमित्वनिरास उक्तः । तथासौ युधि विपक्षैः प्रागानं भिक्ष्यते चास्मान् जीवतो मुञ्चेति जीवितव्यं याच्यते च । एतेन पराक्रमित्वोक्तिः । तथा बतेति खेदे। वि. परेवासौ स्वभर्तृभावमात्मस्वामितां नीयते चात्मनः स्वामी क्रियव इत्यर्थः । एतेन प्रभुसंपदुक्तिः । एतेन सर्वेणास्य दुःसाध्यत्वोक्तिः ॥ जहेन्यदारान् स्वपुरी दशास्यो गां कार्तवीर्यो यतिनं मुमोष । भ्रूणानकर्षद्भगिनीं च कंसोग्रहीत्किमेतानसकावनीतीः ॥ ८२॥ ८२. दशास्यो रावणोन्यदारान् रामभार्या सीता स्वपुरीं लड्डू जहे निनाय । तथा कार्तवीर्यः सहस्रार्जुनो यतिनं जमदमिं गां कामधेनुं मुमोषापजहार । तथा कंसः कंसाल्यो दैत्यो भगिनी देवकी भ्रूणान् गर्भानकर्षदेवकोपार्थाद्वधार्थ भ्रूणान् गृहीतवानित्यर्यः । कं. १ सी डी नीने. २ एफ 'न् विमक्ष्य'. ३ ए सी डी ते । ए. ४ सी डी मनं स्वा. ५एफ भुत्वसं. ६ एफ वेण प्रकारेणा'. ७ ए सी डी "तां ल'. ८ सील्यो भ.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy