________________
० २१.१.]
द्वितीयः सर्गः ।
१३३
पावित्र्यस्य तमसश्चापगमाच्चतस्त्रो येषु तानि राजञ्चतसृणि शोभमानादिकचतुष्टयान्वितानि सन्ति । यतः किंभूतेमुष्मिन । त्रयीतनुत्वात्तिसृणां । श्रुतीनां वेदानां निधौ स्थाने । एतेनातिपावित्र्योक्तिः । तथा भाभिः किरणैः कृत्वा सह तिसृभिर्वर्तते यस्तस्मिन् सतिसि प्रथमोदितत्वात्किरणत्रयान्विते पश्चाच्च ता एव भाः सप्रकाशतरा बभूवुरिति माभिः सुतिसरि सप्रकाशतर किरणत्रयान्विते ततो भाभिरुदश्वञ्चतरुयुदीयमानकिरणचतुष्टये क्षणाश्च भाभिश्व श्वश्वतसरि विकसत्तर केरणचतुष्टयान्विते च किं चिदुत इत्यर्थः । एतेन तमोपहार उक्तः । योपि नवार्कतुल्योभिनवनृपः प्रवर्धमानतेजाः श्रुतीनां निधिश्व स्यात्तस्मिन्प्रवर्धमानप्रतापत्त्रात्प्रतापांशेनौतिदुष्टनिग्रहपरे श्रुतिनिधित्वेन न्यायित्वाच्छिष्टपालके च सति जगन्ति राजद्दिक्चतुष्टयानि भवन्तीत्युक्तिः ॥ इष्ट्यादिभिः सत्तिसरः सतिस्रो द्विजाः क्रियाभिर्जरसं निहन्तुम् । असज्जराः सज्जरसस्तथाद्यं जरामतीतं पुरुषं स्मरन्ति ॥ ११ ॥
११. तथेति पूर्वोक्तसमुचये । असज्जरा अविद्यमानजरास्तरुणाः सजरसो वृद्धाश्च द्विजा ब्राह्मणा जरसं जरां निहन्तुम् । मुक्तय इत्यर्थः । जरामतीतं मुक्तमाद्यं पुरुषं विष्णुं स्मरन्ति । कीदृशाः । इष्ट्यादिभिर्यजनादिभिः क्रियाभि: षड्भिः प्रतिदिनकर्मभिः कृत्वा सत्यों विद्यमानास्तिस्रो येषां ते सत्तिसरः सतिस्रश्वोभयपदार्थमिलने संषपः । षट्कर्मयुक्ता इत्यर्थः । एतेन नैष्ठिकत्वोक्तिः । यद्वा ।
द्विजो विप्रक्षत्रिययोर्वैश्येदम्भे विहंगमे ।
इति वचनाहूिजा निर्वृम्भा इत्यादिभिर्देवपूजादिप्रतिदिनक्रियाभिः
१ एफ् तेस्मिन् २ सी 'न्विता. ३ बी 'नापि दु. ५ एफ् मील सी डी स एषः.
* एकू यादिभिः.