SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ [है० १.४.२७.] प्रथमः सर्गः। पृथ्व्या वध्वाः करं गृह्णलँक्ष्म्यै वध्वाययं सुखः। लुब्धोन्यकीर्तिवध्वां च परवध्वाः पराङपि ॥ १७६ ॥ १७६. सुगमः । नवरं यो वध्वन्तरस्य करं गृह्णात्युद्वाहं करोति स पूर्ववध्वा दुःखायैव स्यात् । योपि परवध्वाः परामुख: स्यात् सोन्यवधूं नेच्छतीति विरोधः । तद्भङ्गस्त्वेवम् । पृथ्व्या वध्वाः करं राजप्राचं भागं गृह्णन्सन् लक्ष्म्यै वध्वै सुखः सुखकार्यभूत् ! लक्ष्म्या वर्धकत्वात् । तथा परवध्वाः पराङ् पराङ्मुखोन्यकीर्तिवध्वां शत्रुकीर्तिकान्तायां लुब्धश्चाभूत् । अपिहमित्यत्रापि योज्यः ॥ प्रामण्येपि खलप्वे नु निस्पृहोसौ परस्त्रियै । मुलक्ष्म्यै च सुवध्यै च न स्म कस्मै चिदीर्घ्यति ॥१७७॥ १७७. असौ राजा शोभना अतुच्छत्वात्प्रधाना लक्ष्म्यो धनधान्यादिसंपदो यस्य तस्मै सुलक्ष्म्यै च तथा शोभना रूपलावण्याद्यन्विता वधूर्भार्या यस्य । केचित्तु नित्यदितां क्यूङन्तानामेव कचमिच्छन्ति तन्मतेत्र कजभावः । तस्मै सुवध्वं च कस्मै चित्कस्मायप्येकस्मै नेय॑ति नासूयति । असहमानो रम्यतमामपि परस्य लक्ष्मी वधूं च न गृहातीत्यर्थः । यतो ग्रामं नयति प्रामणीमपतिर्महर्द्धिक इत्यर्थः । तस्मै प्रा. मण्येपि खलं पुनौति यस्तस्मै खलप्वे नु दासायेवं दरिद्रायेवेत्यर्थः । अस्पृहयालुर्यथा धनेच्छया दरिद्रं न कोपीच्छति तथायमीश्वरमपीत्यर्थः । तथा परखियायन्यभार्यायै ग्रामण्येपि रूपलावण्यादिभिरुत्कृ. ष्टायामपि खलप्वे नु कर्मकर्यायिवास्पृहयालुरनमिलाषुकः ॥ बुबै शुचये । कीर्त्याः मतेः । नृपपतीः महाबुद्धेः । जयाप्त्यां समितौ । १ सी वधूनेच्छ. डी वधूनेच्छ. २ एफ च्छतिवि. ३ एफ कार्योभू. ४ ए एफ °पि गृह. ५ एफ् नातीति. ६ सी डी येवेत्य'. ७सी एफ ा म. ८ सी डी एफ कथा म.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy