SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ [हे. १.४.२३.] प्रथमः सर्गः । १०३ मुनेरपि मुनेरस्य साधोः साधोरपि स्फुटम् । कीर्तये चारवे यत्रो जज्ञे बुद्ध्याः प्रकर्षतः ॥ १६७ ॥ १६७. अस्य राज्ञो बुद्ध्याः प्रकर्षतश्चारवे निष्कलङ्कायै कीर्तये स्फुटं प्रकटं यत्नोभून् । यथा यथा लोके कीर्तिः स्यात् तथा तथावतिष्टेत्यर्थः । बुद्धिप्रकर्षे हेतुगैर्भ विशेषणद्वयमाह । मुनेरपि सकाशान्मुनेरत्यन्तं जितेन्द्रियस्येत्यर्थः । तथा साधोरपि शिष्टादपि सकाशासाधोः । स्याद्विजितेन्द्रियस्य सदाचारस्य च नरस्य बुद्धिप्रकर्षः ॥ कीर्तये । चारवे । मुनेः । साधोः । मुनेः। साधोः । इत्येषु “डित्यदिति" [२३] इत्येदोतौ ॥ अदितीति किम् । बुधाः ॥ ते गुणा अमुना कीर्तिशुचिनात्मनि रोपिताः । शंभोः सख्यावपां पत्यौ योः फ्तौ च विधौ च ये ॥१६८ १६८. शंभोः सख्यौ धनदेपां पत्यौ वरुणे द्योः पतौ चन्द्रे च विधौ चेन्दौ च ये गुणा औदार्यन्यायपरमैश्वर्यसौम्यत्वादयः सन्ति ते गुणा अमुना राज्ञात्मनि रोपिताः संस्थापिताः । अत एव कीर्तिशुचिना । महापुरुषगुणधर्धारणे हि निष्कलई यशः प्रसरति ॥ बहुपत्यौ भुवनानामसखौ रणकर्मणि । अस्मिन्नरपतौ सर्वान्को गुणान्वतु मीश्वरः ॥ १६९ ॥ १६९. भुवनानां बहुपत्यौ भुवनानां पतिर्जगन्नाथो विष्णुस्तस्मिन्नीषदूने शौर्यादिगुणैर्विष्णुतुल्य इत्यर्थः । अत एव रणकर्मणि युद्धक्रियायां १ए यै च की. २ एफ वतिष्ठतीत्य. ३ बी गर्भवि . ४ एफ बुद्धेः प्र. ५ एक तौ आदि. ६ एफ पनौ व.७ एफ ताः । अ. ८ एफ धारिणो हि.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy