SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ [है.१.४.२०.] प्रथमः सर्गः । १०१ [१७] इत्यादिना यै-यास-यास-यामः ॥ आप इति पकारः किम् । कीलालपि । तरसंबन्धिविज्ञानादिह न भवति । बहुखट्दाय नराय । एतच्चोदाहरणं स्वयं ज्ञेयम् । इह तु भवति । बहुखट्वायां निस्त्रिंशे ॥ हितः प्रजायै सर्वस्यै सर्वस्याः संपदः पदम् । ख्यातोसौ दिशि सर्वस्यां सर्वस्या नृपसंहतेः ॥ १६३ ॥ १६३. अयं राजा सर्वस्या भूतभवद्भाविन्या नृपसंहतेः सकाशासर्वस्यां दिशि दशस्वपि दिक्षु ख्यातोभूत् । यतः सर्वस्यै प्रजायै हितोनुकूलः । तथा सर्वस्याः सैन्यकोशादिकायाः संपदः पदं स्थानम् ।। सर्वस्यै । सर्वस्याः । सर्वस्याः । सर्वस्याम् । इत्यत्र “सर्वादेः" [14] इत्यादिना डसपूर्वा यैयास्यास्यामः ॥ लीलया भुजयोलक्ष्मीवसुधे अस्य विभ्रतः । कुन्दावदातैरोदस्यौ यशोभिः पूरिते इमे ॥१६४ ॥ १६४. स्पष्टः । लीलया । भुजयोः । इत्यत्र "टोस्येत्" [१९] इत्येत् ॥ पूरिते । हमे । लक्ष्मीवसुधे विभ्रतः । इत्यत्र “ौता" [२०] इत्येत् ॥ चारू चापेषुधी त्यक्त्वा समरेष्वस्य वैरिभिः। गुरू अबलताभीती शिश्रियाते अतिस्त्रियौ ॥ १६५॥ १६५. अस्य राज्ञः समरेषु वैरिभिश्चारू रणालंकर्मीणौ चापेषुधी ध. नुस्तूणौ त्यक्त्वाबलताभीती नि:सत्वताभये शिश्रियाते आश्रिते। कीदृशे। १ सी डी रः । की. २ सी बन्धवि. ३ एफ वस्या । स'. ४सी डी निःस्वत्व'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy