SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ [ है ० १.४.६. ] प्रथमः सर्गः । ८७ एषु । एषाम् । एभिः । एभ्यः । नयनयोः । इत्यत्र " एद्वहुस्भोसि" [४] इत्येत् ॥ बह्निति किम् । अस्य । स्भोसीति किम् । गृहान् ॥ अतं इत्येव । गुरुषु । पित्रोः ॥ जनेन । अतिजरेण । सर्वस्य । प्रत्यासन्नजरस्य । इत्यत्र “टाङसोरिनस्यौ” [५] इतीनस्यादेशौ । अत इत्येव । अजरसा । दूरजरसः । अत्र परत्वान्नित्यत्वाच्च प्रागेव जरसादेशे कृतेकारान्तत्वाभावः । अन्ये तु प्रागेवेनादेशं संनिपातलक्षणस्यानित्यत्वाश्रयणात्पश्चाजरसादेशं चेच्छन्तः स्फुरज्जरसिन इत्यपि मन्यन्ते ॥ मोक्षाय । संग्रहात् । इत्यत्र " डेडस्योर्यातौ " [६] इति यादादेशौ ॥ सर्वस्मै प्रियकर्तास्मिन् सर्वस्मादुज्ज्वलो गुणैः । नृपः श्रीमूलराजोभूच्चौलुक्यकुलचन्द्रमाः ।। १३५ ।। १३५. अथात्र काव्ये वर्णनीयेषु चौलुक्येषु मध्ये प्रथमो यो राजात्र पुरेभूतमासर्गान्तमुप श्लोकयति ॥ मूले चौलुक्येष्वादावत्र पुरे राजा मूलराजो यद्वा मैले नक्षत्रे राजा चन्द्रो मूलराजस्तत्र जातत्वान्मूलराजः श्रिया युक्तो मूलराजः श्रीमूलराजो नाम नृपोभूत् । कीदृक् । गुणैः परोपकरित्वादिभिः कृत्वा सर्वस्मात्समस्तलोकात्संकाशादुज्ज्वलोत एव सर्वस्मै प्रियकर्ता वाञ्छितकारी । अत एव च चौलुक्यकुलचन्द्रमाः । चन्द्रमा अपि गुणैः कान्तैतादिभिः सर्वस्मादुज्वलोत एव सर्वस्मै प्रियकर्ता । तथा श्रिय आवासत्वाच्छ्रियो नक्षत्रपतित्वान्मूलस्य मूलनक्षत्रस्य च राजा प्रभुः स्यादित्युक्तिः ॥ I १ एफू भ्य: अनयो:, २ एफ् त एव किम् । गु. ३ एफ् ध्येयः प्र. ४ सी डी एफू मोरा ५ एफ् मूलन ६ बी सी डी 'ले मूलन° ७ सी 'जास्त. डी जा तत्र. ८ एफ नामा नृ. ९ एफू जैश्च प १० एफ् 'त्समस्तलोकसका . ११ सी डी एफ व चौ. १२ एफ न्तत्वादि : १३ एफ लन.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy