SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ [है. १.४.३.] प्रथमः सर्गः। अमीभिरेभिरिमकैरमुकैश्च महात्मभिः। भात्यदोतिजरैः सिद्धरत्रेति जगदुर्जनाः ॥ १३१ ॥ १३१. अत्र पुरे जनाः सिद्धाद्भुतगुणरजितत्वेनान्यजनानां पुरो जगदुः । कथमित्याह । अमीभिः प्रत्यक्षविप्रकृष्टैरेभिः प्रत्यक्षसमीपतरैरिमकैरल्पैरज्ञातैर्वा प्रत्यक्षसमीपतरैरमुकैश्वाल्पैरज्ञातैर्वा प्रत्यक्षविप्रकृटैश्च महात्मभिरतिजोगप्रभावेण जरामतिकान्तैः सिद्धैर्विद्यासिद्धैः कुत्वादः पुरं भाति पवित्रीभवतीत्यर्थ इति ॥ लोकाः। अर्थकामाभ्याम् । धर्माय । इत्यत्र "भत आ"[3] इत्यादिना-आकारः॥ भत इति किम् । अभीप्सवः ॥ स्यादाविति किम् । मुक्तये ॥ सिद्धैः ! अतिजरैः । इत्यत्र “मिस ऐस" [२] इति मिस ऐस् ॥ एसादे. शेनैव सिद्ध ऐस्करणं संनिपातन्यायस्यानित्यत्वज्ञापनार्थम् । तेन अतिजरसैः । इत्यपि सिद्धम्। अत इत्येव । योगिभिः ॥ इमकैः । अमुकैः । इत्यत्र "इदम्" [३] इत्यादिना भिस ऐस् ॥ अक्येवेति किम् । एभिः । अमीभिः॥ एभिनयनयोः प्रीतिरेषां श्रीरेभ्य उत्सवः । एषु धर्म इति श्रीमद्गृहान् को नास्य वर्णयेत् ॥ १३२ ॥ १३२.अस्य पुरस्य श्रीमगृहानान्यानां वेश्मानि दारान्वा को न वर्णयेत् । कथमित्याह । एभिः श्रीमद्हैः कृत्वा सौन्दर्यातिशयान्नयनयोलॊकेक्षणयोः प्रीतिराहदः स्यात्तथैषां श्रीलक्ष्मीर्वर्तते तथैभ्यः सकाशादु. त्सवो वसन्तोत्सवादिमहः प्रवर्तते तथैषु धर्मो देवपूजादानादिरस्ति । भोगधर्मफलत्वेनैषां लक्ष्मीन निर्थिकेत्यर्थ इति ।। १ सी डी। सि. २ डी सिद्धैः कृ. ३ सी 'वित्रीत्य. एफ वित्रं भ. ४ एफ आः स्यादावित्या. ५ ए °ति मु. ६ ए ऐस् एसा. एफ ऐ. सिति एसा. ७ वी एफ दिमहः. ८ बी सी डी एफ रर्थके.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy