SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ [है० १.३.४९. ] प्रथमः सर्गः । अस्तब्धा दुग्धशुद्धात्मन्मा लज्जख प्रगल्भ्यताम् । पिण्डि मानं सपत्नीनां मुग्धास्मिन्निति पाठ्यते ॥ १०७ ॥ १०७. अस्मिन्पुरे मुग्धा नवोढा पाठ्यते सखीभिः शिक्ष्यते । कथमित्याह । हे दुग्धशुद्धात्मन्नकुटिलाशये भर्तुः समीपागमे मालजस्व किं तु प्रगल्भ्यतां शृङ्गारसारस्वकलाकौशलप्रकाशनेन प्रगल्भीभूयेताम् । ततश्च प्रेयसोतिवल्लभीभवनेन सपत्नीनां मानं सौभाग्यविषयं गर्व पिण्टि चूर्णयेति । यतोस्तब्धा विनीता । यो ह्यस्तब्धो विनीतः स्यात् मुग्धो मूर्खोप्युपाध्यायेन पाठ्यते ॥ 3 1 ७१ लज्जस्व । दुग्ध । मुग्धा । पिण्डि । शुद्ध । अस्तब्धा । इत्यत्र “तृतीयः " [ ४९] इत्यादिना घुटः स्थानिप्रत्यासन्नस्तृतीयः । तृतीयचतुर्थ इति किम् । पाठ्यते ॥ घुट इत्येव । प्रगल्भ्यताम् ॥ षटूर्माणोत्र वाक्पूतास्तत्तद्विद्याककुश्रुताः । विश्वामित्रप्रभाच्छेदे मैत्रावरुणनिष्टुराः ॥ १०८ ॥ १०८. षट् कर्माणि यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहलक्षणानि प्रतिदिनकृत्यानि येषां ते षटुर्माणो द्विजा अत्र पुरे सन्ति । कीदृशा वाक्पूताः सत्यमितवाक्त्वेन वचनेन पवित्राः । एतेन सदनुष्ठानवत्त्वमुपलक्षितम् । तथा तास्ता अनेकप्रकारत्वेन प्रसिद्धा या विद्याः शिक्षाकल्पादयश्चतुर्दश ताभिः ककुप्सु दिक्षु श्रुता विख्याताः । एतेन ज्ञानित्वोक्तिः । अत एव विश्वामित्रप्रभाच्छेदे विश्वस्योपद्रवकारित्वेनामित्राः शत्रवो वि -. श्वामित्रा दैत्यराक्षसादयस्त एवान्यायकारित्वाद्विश्वामित्रो गाधिसूनुस्तस्य १ एफ् स्व प्र° २ सी य त ३ सी डी 'यं सर्व. ४ सी डी स मू. ५ एफ ग्धपि मू. ६ सी स्थानप्र डी खानेप्र. ७ एफ् 'वित्रिताः । .
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy