SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ધર્મબિંદુપ્રકરણ બીજો અધ્યાય । अथ द्वितीयोऽध्यायः । व्याख्यातः प्रथमोऽध्यायः, साम्प्रतं द्वितीयो व्याख्यायते, विशेषसंबन्धश्चास्य स्वयमेव शास्त्रकृता भणिष्यत इति नेह दर्श्यते, एवमन्येष्वप्यध्यायेष्विति, तस्य चेदमादिसूत्रम् પહેલા અધ્યાયનું વ્યાખ્યાન કર્યું. હવે બીજા અધ્યાયનું વ્યાખ્યાન કરવામાં આવે છે. આનો સંબંધ (= પહેલા અધ્યાયની સાથે બીજા અધ્યાયનો સંબંધ) ગ્રંથકાર પોતે જ કહેવાના હોવાથી અહીં બતાવવામાં આવતો નથી. બીજા અધ્યાયોમાં પણ આ પ્રમાણે સમજી લેવું. બીજા અધ્યાયનું પહેલું સૂત્ર આ પ્રમાણે छ: प्रायः सद्धर्मबीजानि गृहिष्वेवंविधेष्वलम् । रोहन्ति विधिनोप्तानि यथा बीजानि सक्षितौ ॥१॥ इति । प्रायो बाहुल्येन सद्धर्मबीजानि सद्धर्मस्य सम्यग्ज्ञान - दर्शन - चारित्ररूपस्य बीजानि कारणानि, तानि चामूनि - दुःखितेषु दयाऽत्यन्तमद्वेषो गुणवत्सु च । औचित्यासेवनं चैव सर्वत्रैवाविशेषतः ।।४६।। (योगदृष्टि० ३२) इति ।। गृहिषु गृहस्थेषु एवंविधेषु कुलक्रमागतानिन्द्यन्यायानुष्ठानादिगुणभाजनेषु अलं स्वफलावन्ध्यकारणत्वेन अत्यर्थं रोहन्ति धर्मचिन्तादिलक्षणाङ्कुरादिमन्ति जायन्ते, उक्तं च - . वपनं धर्मबीजस्य सत्प्रशंसादि तद्गतम् ।। तच्चिन्ताद्यकुरादि स्यात् फलसिद्धिस्तु निर्वृतिः ।।४७।। ( ) चिन्ता - सच्छ्रत्यनुष्ठान - देवमानुषसंपदः। क्रमेणाङ्कुर - सत्काण्ड - नाल - पुष्पसमा मताः ।।४८।। ( ) कीदृशानि सन्ति रोहन्तीत्याह- विधिना देशनार्हबालादिपुरुषौचित्यलक्षणेन उप्तानि निक्षिप्तानि, यथेति दृष्टान्तार्थः, बीजानि शालि - गोधूमादीनि सत्क्षितौ अनुपहतभूमौ विधिनोप्तानि सन्ति, प्रायोग्रहणादकस्मादेव पक्वतथाभव्यत्वे क्वचिन्मरु देव्यादौ अन्यथाभावेऽपि न विरोध इति ।।१।। ૫૭
SR No.023409
Book TitleDharmbindu Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSarvoday Parshwanath Charitable Trust
Publication Year1996
Total Pages450
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy