SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ધર્મબિંદુપ્રકરણ પહેલો અધ્યાય इतरोऽपि प्रचुरस्वपितृविभववशोत्पन्नाहङ्कारः तत्पितुर्विभवविकलत्वेन दुर्बलपृष्ठोपष्टम्भां कन्यामवजानाति। तथा गोत्रजैर्वैवाटे स्वगोत्राचरितज्येष्ठताव्यवहारविलोपः स्यात्, तथाहि- ज्येष्ठोऽपि वयोविभवादिभिः कन्यापिता कनिष्ठस्यापि जामातृकपितुः नीचैर्वृत्तिर्भवति, न च गोत्रजानां रूढं ज्येष्ठकनिष्ठव्यवहारम् अतिलघ्य अन्यो वैवाह्यव्यवहारो गुणं लभते, अपि तु तद्व्यवहारस्य प्रवृत्तौ गोत्रजेषु पूर्वप्रवृत्तविनयभङ्गात् महान् अनर्थ एव संपद्यते। तथा बहुविरुद्धैः सह संबन्धघटनायां स्वयमनपराद्धानामपि तत्संबन्धद्वारा आयातस्य महतो विरोधस्य भाजनभवनेन इहलोक-परलोकार्थयोः क्षतिः प्रसजति, जनानुरागप्रभवत्वात् संपत्तीनामिति पर्यालोच्य उक्तं 'समानकुलशीलादिभिः अगोत्रजैः वैवात्यमन्यत्र बहुविरु द्धेभ्यः' इति। ___ अत्र च लौकिकनीतिशास्त्रमिदम्- द्वादशवर्षा स्त्री, षोडशवर्षः पुमान्, तौ विवाहयोग्यौ, विवाहपूर्वो व्यवहारः कुटुम्बोत्पादनपरिपालनारूपश्चतुरो वर्णान् कुलीनान् करोति, युक्तितो वरणविधानम्, अग्निदेवादिसाक्षिकं च पाणिग्रहणं विवाहः, स च ब्राह्मादिभेदादष्टधा। ___ तथाहि- ब्राह्मो विवाहो यत्र वरायालङ्कृत्य कन्या प्रदीयते १, त्वं भवास्य महाभागस्य सधर्मचारिणीति विनियोगेन विभवस्य कन्याप्रदानात् प्राजापत्यः २, गोमिथुनपुरस्सरकन्याप्रदानादार्षः ३, स दैवो विवाहो यत्र यज्ञार्थमृत्विजः कन्याप्रदानमेव दक्षिणा ४, एते धा विवाहाश्चत्वारोऽपि गृहस्थोचितदेवपूजनादिव्यवहाराणामेतदन्तरङ्गकारणत्वान्मातुः पितुर्बन्धूनां च प्रामाण्यात्। परस्परानुरागेण मिथः समवायात् गान्धर्वः ५, पणबन्धेन कन्याप्रदानमासुरः ६, प्रसह्य कन्याऽऽदानात् राक्षसः ७, सुप्तप्रमत्तकन्याऽऽदानात् पैशाचः ८, एते चत्वारोऽधा अपि नाधाः , यद्यस्ति वधूवरयोरनपवादं परस्पररुचितत्वमिति। शुद्धकलत्रलाभफलो विवाहः। तत्फलं च सुजातसुतसन्ततिः, अनुपहता चित्तनिर्वृतिः, गृहकृत्य सुविहितत्वम् , आभिजात्याचारविशुद्धत्वम्, देवातिथिबान्धवसत्कारानवद्यत्वं चेति । ___ कुलवधूरक्षणोपायाश्चैते- गृहकर्मविनियोगः, परिमितोऽर्थसंयोगः, अस्वातन्त्र्यम्, सदा च मातृतुल्यस्त्रीलोकावरोधनमिति । रजकशिला-कुर्कुरकर्परसमा हि वेश्याः, कस्तासु कुलीनो रज्येत?, यतो दाने दौर्भाग्यम्, सत्कृतौ परोपभोग्यत्वम्, आसक्तौ परिभवो मरणं वा, महोपकारेऽप्यनात्मीयत्वम्, बहुकालसंबन्धेऽपि त्यक्तानां तदैव पुरुषान्तरगमनमिति वेश्यानां कुलाऽऽगतो धर्म इति ।।१२।।
SR No.023409
Book TitleDharmbindu Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSarvoday Parshwanath Charitable Trust
Publication Year1996
Total Pages450
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy