SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ધર્મબિંદુપ્રકરણ ત્રીજો અધ્યાય अथ तृतीयस्य अप्रत्युपेक्षिताप्रमार्जितोत्सर्गा-ऽऽदाननिक्षेप-संस्तारोपक्रमणाऽनादर-स्मृत्यनुस्थापनानि ॥३३॥१६६॥ इति । इह पदेऽपि पदसमुदायोपचाराद् अप्रत्युपेक्षितपदेनाप्रत्युपेक्षितदुष्प्रत्युपेक्षितः स्थण्डिलादिभूमिदेशः परिगृह्यते, अप्रमार्जितपदेन तु स एवाप्रमार्जितदुष्प्रमार्जित इति, तथा उत्सर्गश्चादान-निक्षेपौ चेति उत्सर्गादाननिक्षेपाः, ततोऽप्रत्युपेक्षिताप्रमार्जिते स्थण्डिलादावुत्सर्गादाननिक्षेपाः अप्रत्युपेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपाः, ततस्ते च संस्तारोपक्रमणं चानादरश्च स्मृत्यनुपस्थापनं चेति समासः, तत्राप्रत्युपेक्षिते प्रथमत एव लोचनाभ्यामनिरीक्षिते दुःप्रत्युपेक्षिते तु प्रमादाद् भ्रान्तलोचनव्यापारेण न सम्यग् निरीक्षिते तथा अप्रमार्जिते मूलत एव वस्त्राञ्चलादिना अपरामृष्टे दुष्प्रमार्जिते त्वर्द्धप्रमार्जिते स्थण्डिलादौ यथार्हमुत्सर्गो मूत्र-पुरीषादीनामुज्झनीयानाम्, आदान-निक्षेपौ च पौषधोपवासोपयोगिनो धर्मोपकरणस्य पीठ-फलकादेवितीचारौ स्यातामेताविति १-२। इह संस्तारोपक्रमणम् इति संस्तारकशब्दः शय्योपलक्षणम्, तत्र शय्या शयनं सर्वाङ्गीणं वसतिर्वा, संस्तारकः अर्द्ध तृतीय हस्तपरिमाणः, ततः संस्तार कस्य प्रस्तावादप्रत्युपेक्षितस्याप्रमार्जितस्य चोपक्रमः उपभोगः अतीचारोऽयं तृतीयः ३। अनादरस्मृत्यनुपस्थाने पुनौं चतुर्थ-पञ्चमावतीचारौ ४-५ सामायिकातिचाराविव भावनीयाविति। इह संस्तारोपक्रमे इयं वृद्धसामाचारी- कृतपौषधोपवासो नाप्रत्युपेक्षितां शय्यामारोहति, संस्तारकं वा पौषधशालां वा सेवते, दर्भवस्त्रं वा शुद्धवस्त्रं वा भूम्यां संस्तृणाति, कायिकाभूमेश्चागतः पुनरपि संस्तारकं प्रत्युपेक्षतेऽन्यथाऽतिचारः स्यात्, एवं पीठादिष्वपि विभाषेति ।।३३।। હવે ત્રીજા શિક્ષાપદ (પૌષધ) વ્રતના અતિચારો કહે છે - અપ્રત્યુપેક્ષિત - અપ્રમાર્જિત ઉત્સર્ગ, અપ્રત્યુપેક્ષિત - અપ્રમાર્જિત આદાન - નિક્ષેપ, અપ્રત્યુપેક્ષિત - અપ્રમાર્જિત સંસ્કાર - ઉપક્રમણ, અનાદર અને સ્મૃતિ અનુપસ્થાપન એ પાંચ અતિચારો ત્રીજા શિક્ષાપદવ્રતના છે. અપ્રત્યુપેક્ષિત-અપ્રમાર્જિત ઉત્સર્ગઃ અહીં અપ્રત્યુપેક્ષિત શબ્દના ઉપલક્ષણથી દુપ્રત્યુપેક્ષિત પણ સમજવું. તેમાં અપ્રત્યુપેક્ષિત એટલે પહેલેથી જ આંખોથી બરોબર નહિ જોયેલું. દુપ્રત્યુપેક્ષિત એટલે પ્રમાદથી આંખો આમ-તેમ ભટકતી હોવાના કારણે બરોબર નહિ જોયેલું. અપ્રમાર્જિત એટલે પહેલેથી જ વસ્ત્રના છેડા - १७८
SR No.023409
Book TitleDharmbindu Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSarvoday Parshwanath Charitable Trust
Publication Year1996
Total Pages450
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy