SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ધર્મબિંદુપ્રકરણ ત્રીજો અધ્યાય તથા શિષ્યહિત માટે પ્રાયઃ બધા સ્થળે મધ્યમ પદ્ધતિથી જ વિવક્ષા કરી હોવાથી બધાં વ્રતોમાં અતિચારોની પાંચ સંખ્યા જ ગણી છે. આથી અતિચારોની ચાર કે છ સંખ્યા નહિ ગણવી જોઈએ. (૨૭) अथ प्रथमगुणव्रतस्यऊर्ध्वाधस्तिर्यग्व्यतिक्रम - क्षेत्रवृद्धि -स्मृत्यन्तर्धानानि ॥२८॥१६१॥ इति। ___ऊर्ध्वाधस्तिर्यग्व्यतिक्रमाश्च क्षेत्रवृद्धिश्च स्मृत्यन्तर्धानं चेति समासः, तत्र ऊर्ध्वाधस्तिर्यक्षेत्रव्यतिक्रमलक्षणास्त्रयोऽतीचाराः, एते च आनयने विवक्षितक्षेत्रात् परतः स्थितस्य वस्तुनः परहस्तेन स्वक्षेत्रप्रापणे, प्रेषणे वा ततः परेण, उभये वा आनयनप्रेषणलक्षणे सति संपद्यन्ते, अयं चानयनादावतिक्रमो 'न कारयामि' इत्येवंविहितदिग्व्रतस्यैव संभवति, तदन्यस्य तु आनयनादावनतिक्रम एव, तथाविधप्रत्याख्यानाभावादिति १-२-३। तथा क्षेत्रस्य पूर्वादिदेशस्य दिग्व्रतविषयस्य ह्रस्वस्य सतो वृद्धिः वर्द्धनम्, पश्चिमादिक्षेत्रान्तरपरिमाणप्रक्षेपेण दीर्धीकरणं क्षेत्रवृद्धिः, किल केनापि पूर्वापरदिशोः प्रत्येकं योजनशतं गमनपरिमाणं कृतम्, स चोत्पन्नप्रयोजन एकस्यां दिशि नवतिं व्यवस्थाप्यान्यस्यां तु दशोत्तरं योजनशतं करोति, उभाभ्यामपि प्रकाराभ्यां योजनशतद्वयरूपस्य परिमाणस्याव्याहतत्वादित्येवमेकत्र क्षेत्रं वर्द्धयतो व्रतसापेक्षत्वादतिचारः ४। तथा कथञ्चिदतिव्याकुलत्व-प्रमादित्व-मत्यपाटवादिना स्मृतेः स्मरणस्य योजनशतादिरूपदिक्परिमाणविषयस्यान्तर्धानं भ्रंशः स्मृत्यन्तर्धानमिति ५। इह वृद्धसंप्रदायः- ऊर्ध्वं यत् प्रमाणं गृहीतं तस्योपरि पर्वतशिखरे वृक्षे वा मर्कट: पक्षी वा वस्त्रमाभरणं वा गृहीत्वा व्रजेत्, तत्र तस्य न कल्पते गन्तुम्, यदा तु तत् पतितमन्येन वाऽऽनीतं तदा कल्पते ग्रहीतुम्, एतत् पुनरष्टापदोज्जयन्तादिषु भवेत्, एवमधः कूपादिषु विभाषा, तथा यत् तिर्यकप्रमाणं गृहीतं तत् त्रिविधेन करणेन नातिक्रमितव्यम्, क्षेत्रवृद्धिश्च न कर्त्तव्या, कथम्?, असौ पूर्वेण भाण्डं गृहीत्वा गतो यावत् तत् परिमाणम्, ततः परतो भाण्डमघु लभते इतिकृत्वा अपरेण यानि योजनानि तानि पूर्वदिग्परिमाणे क्षिपति, यदि च स्मृत्यन्तर्धानात् परिमाणमतिक्रान्तो भवेत् तदा ज्ञाते निवर्तितव्यं परतश्च न गन्तव्यम्, अन्योऽपि न विसर्जनीयः, अथानाज्ञया कोऽपि गतो भवेत् तदा यत् तेन लब्धं स्वयं विस्मृत्य गतेन वा तन्न गृह्यते इति ।।२८।। હવે પહેલા ગુણવ્રતના અતિચારો કહે છેઃ ૧૫
SR No.023409
Book TitleDharmbindu Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSarvoday Parshwanath Charitable Trust
Publication Year1996
Total Pages450
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy