SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धप्राभृतं सटीकम् १०९ अत्राह परः-यः कारणभावं न प्रतिपद्यते किं तेन प्ररूपितेन ? इत्या शङ्क्याह— समयक्खेत्ते वट्टे-तएण कालेण सव्वलोए वि । 'संववहारो जह तह, तयकालेणं पि दुविहेणं ॥२७॥ "समयक्खेत्ते वट्टंतएणे "त्यादि ॥ अत्रस्थेन कालेन यथा 'संव्यवहारः' जीवपुद्गलानां भवस्थितिकर्मस्थितिकायस्थितिप्रभृतिर्देवनारकेषु यथायुष्कं त्रयस्त्रिंशत्सागरोपमाणीत्यादि तह तयकालेणं पि 'दुविहेणं 'ति दुविहेणं यथा केवलिसमुग्घाए सिद्धौ गच्छतः, प्रदर्शितं चैतदादावेवेति गाथार्थः ॥२७॥ अत्र तदकालम्मि य दुविहे, छव्विहभेए वि एक्कमेक्कम्मि । जम्मउ साहरणे वा, सिज्झइ एवं वियाणेज्जा ॥ २८॥ ॥ दारं ॥ " तदकालम्मि य दुविहे " गाहा || 'द्विविधे' उक्तलक्षणे । पुनः प्रभेदानाह–'छव्विहभेए वि' एकान्तसुषमादिके षडरके 'एक्कमेक्कम्मि 'त्ति एकैकस्मिन् समयराशावपि विंशतिसागरोपमकोटीकोट्यन्तर्वर्तिनि ‘जम्मदो साहरणे वा' एते अधिकृत्य । जम्मओ उसभादीणं पि यथा तत्कालः तत्कारणात्मना उपकरोति उत्सर्पिणीसुषमदुष्षमादिरूपः, नैवमतत्कालः, सामान्यरूपत्वात्समस्तसमयक्षेत्रव्यापकत्वादस्य । यथा साध्यरोगविशेषक्षयार्थं प्रभवन्ति निम्बशिरीषादयो वनस्पतिविशेषाः, नैवं वनस्पतिः, सामान्यरूपत्वादस्य । तदकालेऽपि जम्मदो साहरणे वा सिज्झइ एवं वियाणेज्जा, तदकालस्य उभयोरपि तुल्यत्वादिति गाथार्थः ॥२८॥ साम्प्रतं गतौ सत्पदप्ररूपणां मार्गयन्नाह— मणुयगईए सिज्झइ, पच्चुप्पण्णं पडुच्च उ णयं तु I सव्वासु पुव्वभावे - णणंतरभवेण सिज्झणया ॥२९॥ ॥ दारं ॥ १. ‘संववहारे' ग-घ-पुस्तकयोः । २. 'तदकालेणं' ङ पुस्तके । ३. 'तदकालम्मी दुविहे' ग घ ङ पुस्तकेषु ।
SR No.023408
Book TitleSiddha Prabhrut Ane Siddha Panchashika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy