________________
[ श्रीस्याद्यन्तरत्नाकरे-अकारान्त ताद्धतान्तप्रकार ,
विकल्पत्वात्तयोरभावपंक्षे " अत इन् " [६, १, ३१ ] इति इमि " अवणेवर्णस्य '' [७, ४, ६८] इतीकारलुकि " वृद्धिः स्वरेष्वादे.'' [७, ४, १] इत्याद्याकारवृद्धौ च सत्याम् 'माण्डूकि' रिति । एवं मण्डूकशब्दादपत्येऽर्थे तिस्रः प्रकृतयो भवन्तीति बोध्यम् ।
माण्डूकेयशब्दस्य रूपाणि 'जिन' (७४) वत् , माण्डूकिशब्दस्य तु रूपाणि वक्ष्यमाण 'मुनि' (१७५) शब्दवज्ज्ञेयानि ॥
स्त्रियांतु-- मण्डूकस्यापत्यं स्त्री 'माण्डूकायनी', 'माण्डूकेयनी', 'माण्डूकी', इति निरुक्तशब्दत्रयस्य तिसृणां प्रकृतीनां सर्वाग्यपि रूपाणि वक्ष्यमाण 'नदी' (२२५) शब्दवद्विज्ञेयानि ।।
अत्राऽयं विशेष:-यदा " पीलासाल्वामण्डकाद्वा" [ ६, १, ६८ ] इत्यनेनाऽण् तदा “ कौरव्यमाण्डूकासूरेः " [ २, ४, ७० ] इति डीभवति तत्सन्नियोगे डायन् चान्तः स्यात्तेन 'माण्डूकायनी' इति भवति । यदा च "दितेश्चैयण वा " [ ६. १, ६९ 1 इत्येयण तदा " अणजेयेकण. " [२, ४. २०, ] इति ड्याम् “ अस्य यां लुक ” [ २, ४, ८६] इत्यकारलुकि 'माण्डूकेयी' इति भवति । यदा तु " अत इञ् ” [ ६, १, ३१ ] इतीन् तदा “ नुर्जातेः " [ २, ४, ७२ ] इति डीभवति, तदनु “ अस्य ङयां लुक् " इत्यकारलुकि 'माण्डूकी' इति भवतीति भावनीयम् ॥
(१२८) अकारान्तः पुंल्लिङ्गः 'कौषीतकेय' शब्दः ।
कुषीतकस्यापत्यं पुमान् काश्यपः कौषीतकेयः ॥ वि० एकव० द्विव० बहुव० कौषीतकेयः कौषीतकेयौ।
कुषीतकाः । कौषातकेयाः ।
कुषीतकान् । द्वि० काषीतकेयम् ,
कौषीतकेयान् ।