SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ શ્રાવક પ્રજ્ઞપ્તિ • ૧૦૩ [संशयकरणं शङ्का काङ्क्षान्योन्यदर्शनग्राहः । सत्यपि विचिकित्सा सिध्येत न मेऽयमर्थः ॥ ८७ ॥] संशयकरणं शङ्का भगवदर्हत्प्रणीतेषु पदार्थेषु धर्मास्तिकायादिष्वत्यन्तगहनेषु मतिदौर्बल्यात्सम्यगनवधार्यमाणेषु संशय इत्यर्थः । किमेवं स्यान्नैवमिति । सा पुनर्द्धिभेदा देशसर्वभेदात् । देशशङ्का देशविषया, यथा किमयमात्मासङ्ख्येयप्रदेशात्मकः स्यादथ निःप्रदेशो निरवयवः स्यादिति । सर्वशङ्का पुनः सकलास्तिकायव्रात एव किमेवं स्यानैवमिति । काङ्क्षान्योन्यदर्शनग्राहः । सुगतादिप्रणीतेषु दर्शनेषु ग्राहोऽभिलाष इति । सा पुनर्दिभेदा देशसर्वभेदात् । देशविषया एकमेव सौगतं दर्शनमाकाङ्क्षति चित्तजयोऽत्र प्रतिपादितोऽयमेव च प्रधानो मुक्तिहेतुरिति अतो घटमानकमिदं न दूरापेतमिति । सर्वकाङ्क्षा तु सर्वदर्शनान्येव काङ्क्षति अहिंसाप्रतिपादनपराणि सर्वाण्येव कपिलकणभक्षाक्षपादमतानीह लोके च नात्यन्तक्लेशप्रतिपादनपराणि अतः शोभनान्येवेति ॥ सत्यपि विचिकित्सा सिध्येत न मेऽयमर्थ इति । अयमत्र भावार्थ:- विचिकित्सा मतिविभ्रमः, युक्त्यागमोपपन्नेऽप्यर्थे फलं प्रति संमोहः। किमस्य महतस्तपःक्लेशायासस्य सिकताकणकवलकल्पस्य कनकावल्यादेशयत्यां मम फलसंपद्भविष्यति किं वा नेति । उभयथेह क्रियाः फलवत्यो निष्फलाश्च दृश्यन्ते कृषीवलानाम् । न चेयं शङ्कातो न भिद्यते इत्याशङ्कनीयम् । शङ्का हि सकला सकलपदार्थभाक्त्वेन द्रव्यगुणविषया। इयं तु क्रियाविषयैव । तत्त्वतस्तु सर्व एते प्रायो मिथ्यात्वमोहनीयोदयतो भवन्तो जीवपरिणामविशेषाः सम्यक्त्वातिचारा उच्यन्ते । न सूक्ष्मेक्षिका अत्र कार्येति । अथवा विचिकित्सा विद्वद्जुगुप्सा । विद्वांसः साधवो विदितसंसारस्वभावाः परित्यक्तसर्वसङ्गास्तेषां जुगुप्सा निन्दा । तथाहितेऽस्नानात्प्रस्वेदजलक्लिन्नमलिनत्वात् दुर्गन्धवपुषो भवन्ति । तान्निन्दति । को दोषः स्याद्यदि प्राशुकेन वारिणाङ्गप्रक्षालनं कुर्वीरन् भगवन्त इति । इयमपि न कार्या । देहस्यैव परमार्थतोऽशुचित्वादिति ॥ ८७ ॥ ગાથાર્થ સંશય કરવો તે શંકા. અન્ય અન્ય દર્શનની અભિલાષા તે કાંક્ષા, યુક્તિ અને આગમથી પદાર્થ સિદ્ધ થવા છતાં “આ મારું કાર્ય સિદ્ધ થશે કે નહિ” એવો સંશય કરવો તે વિચિકિત્સા.
SR No.023403
Book TitleShravak Pragnapti Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay
PublisherArihant Aradhak Trust
Publication Year2007
Total Pages370
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy