SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ પંચસૂત્ર ८. मुच्चमाणे कम्मवाहिणा. ९. निअत्तमाणिट्ठविओगाइवेअणे १०. समुवलब्भ चरणारुग्गं, पवड्डमाणसुहभावे ११. तल्लाभनिव्वुईए तप्पडिबंधविसेसओ परीसहोवसग्गभावेवि तत्तसंवेअणाओ, कुसलासयवुड्डी (ए) थिरासयत्तेण, धम्मो - वओगाओ, सया थिमिए तेउल्लेसाए पवड्डूइ । १२. गुरुं च बहु मन्नइ । जहोचिअं असंगपडिवत्तीए निसग्गपवित्तिभावेण ॥ ॥ २० ॥ १०० ચોથું સૂત્ર एवं कर्मव्याधिगृहीतः प्राणी । किंविशिष्टः ? इत्याह- अनुभूतजन्मादिवेदन: । आदिशब्दाज्जरामरणादिग्रहः । विज्ञाता दुःखरूपेण जन्मादिवेदनायाः, न तु तत्रैवासक्त्या विपर्यस्त इति । ततः किम् ? इत्याह- निर्विण्णस्तत्त्वतः ततो जन्मादिवेदनायाः । किम् ? इत्याह- सुगुरुवचनेन हेतुनाऽनुष्ठानादिना तमवगम्य सुगुरुं कर्मव्याधिं च पूर्वोक्तविधानतस्तृतीयसूत्रोक्तेन विधानेन प्रपन्नः सन्, सुक्रियां प्रव्रज्यां, निरुद्धप्रमादाचारो यदृच्छया, असारशुद्धभोजी संयमानुगुण्येन, अनेन विधिना मुच्यमानः कर्मव्याधिना निवर्त्तमानेष्टवियोगादिवेदनस्तथा मोहनिवृत्त्या किम् ? इत्याह- समुपलभ्य चरणारोग्यं सदुपलम्भेन, प्रवर्द्धमानशुभभावः प्रवर्द्धमानचरणारोग्यभावः । बहुतरकर्मव्याधिविकारनिवृत्त्या तल्लाभनिर्वृत्त्या, तत्प्रतिबन्धविशेषात् चरणारोग्यप्रतिबन्धविशेषात्, स्वाभाविकात् कारणात् परीषहोपसर्गभावेऽपि क्षुद्दिव्यादिव्यसनभावेऽपि तत्त्वसंवेदनात् सम्यग्ज्ञानाद्धेतोः, तथा कुशलाशयवृद्ध्या क्षायोपशमिकभाववृद्ध्या, स्थिराशयत्वेन चित्तस्थैर्येण हेतुना । तथा धर्मोपयोगात् इति कर्त्तव्यताबोधात् कार - णात् सदा स्तिमितः भावद्वन्द्वविरहात् प्रशान्तः । किम् ? इत्याह- तेजोलेश्यया शुभप्रभावरूपया वर्द्धते वृद्धिमनुभवति, गुरुं च बहु मन्यते भाववैद्यकल्पम् । कथं ? इत्याह-यथोचितमौचित्येन, असङ्गप्रतिपत्त्या स्नेहरहिततद्भावप्रतिपत्त्या किमस्या उपन्यास : ? इत्याह- निसर्गप्रवृत्तिभावेन सांसिद्धिकप्रवृत्तित्वेन हेतुना । सूत्र - टीडार्थ- दृष्टांतनो उपनय खा प्रभाो छे
SR No.023399
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay
PublisherArihant Aradhak Trust
Publication Year2004
Total Pages194
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy