________________
स्यादिशब्दसमुच्चयः । "ताभ्यां वाऽऽप् डित्" ॥२॥४॥१५॥ इति सूत्र २ ङीडाए विकल्पाभ्यां सौ बहुराशी बहुराजा बहुराजन् पृथ्वी कमात् नदोश्रद्धा-पूर्वराजन् शब्दवत् ॥ एवं बहून् क्ली [त/क्षान् शाला। उद्दाम्नी, उद्दामा, उद्दामन वडवा । सुवृत्रघ्नी, सृवृत्रहा, सुवृत्रहन पूः । भूरिधाम्नी, भूरिधामा, भूरिधामन विद्या । क्लीवे बहुराज बहुराजनी, बहुराशी बहुराजानि २ । आ० हे बहुराज. वहुराजन् । एवं प्राया अन्यऽप्यूया अबमन्तसंयोगान्नान्ताः ॥ सुपर्वन-मेरुदृश्यन्-राजकृत्वन्-राजयुध्वन् सुशर्मन्-धृतवर्मन्-सुकर्मन् ॥ शोभनं पर्व यस्य स पुंसि सुपर्वा सुपर्वाणो ५। सुपर्वणः । सुपर्वणा सुपर्वभ्याम्। सुपर्वसु । आ० हे सुपर्वन् । स्त्रियामू-"नोपान्त्यवतः” ॥२॥४॥१३॥ इति ङीनिषेधे "ताभ्यां वाऽऽप्०" ॥२।४।१५॥ इति वा डापि सुपर्वा सुपर्वन् श्रद्धावत् पक्षे सुपर्वन्बत् । क्लीबे-सुपर्व सुपर्वणी सुपर्वाणि २। आ० हे सपर्व, सुपर्वन् ॥ एवमन्ये ॥ मेरुदृष्टवान् । सह युध्यते स्म । राजानं युध्यते स्म । सहयुध्वा राजयुध्या अन्त भूतणिगर्थः सकर्मकः राजानं योधितवान् इत्यर्थः। सह कृतवान् राजानं कृतवान् सहकृत्वा राजकृत्वा कनिए सर्वत्र । स्त्रियाम् मेरुदृश्या, मेरुदृश्वन् । सुशर्मा । एवं सर्वे ॥ - दण्डोऽस्यास्ति दण्डिन् पुंसि शशिवत् । स्त्रियाम्'दण्डिनी नदीवत्।क्लीबे-दण्डि दण्डिनी "इन्हन्०"॥१।४।८७॥
दी? दण्डीनीशशेषे शशिवत् । आ० हे दण्डिन् ॥ एवं ग्राहिन्— स्थायिन्-भाविन्-ध्वाङ्करात्रिन्-उष्टक्रोशिन्-मुख्याः ॥ तथा
"वत्स्यति गम्यादिः" ॥५॥३॥१॥ गमिन् आगामिन् । सर्वे द्रष्टु ' शीलमस्येति णिनि सर्वदर्शिन्-मुख्याश्च ॥अथ बन्प्रत्ययान्ताः- सुष्ठु दधाति धयति वा सुष्टु पिबति “मन्वन्कनिस्विच