________________
स्यादिशब्दसमुच्चयः ।
- मुख्या उकारान्ताः स्त्रीलिङ्गाः सदृशक्रियाः । जतु-प्राया उकारान्ताः समानाः स्युर्नपुंसके ॥ १६ ॥
[१९]
धेनुशब्दो बुद्धिवत् । एवं प्रियङगुमुख्याः । कथं हे भीरु । स्त्रीपर्यायादृङि कृते भविष्यति । ये जातिवचनत्वमनिच्छन्तः ऊं ऊऊं न मन्यन्ते तेषां मते भीरा इत्येव स्यात् । कथं हे सुतनुः अत्र तनू शब्दः । केषांविन्मते संबोधने गुणो दृष्टो न भीरोः सुतनोः स्त्रियाम् । जतु वारिवत् । एवमस्तु मुख्याः ॥१६॥ उकारान्त । वाच्यलिङ्गाः पटु - लघ्वादयः समाः । ऊन्ताः पुंसि हूहू नग्नहू -प्रमुखाः समाः ॥१७॥
पुंसि शभ्भुवत् । स्त्रियां धेनुवत् । वा डयां पट्वी नदीवत् । क्लीबे जतुवत् । टादौ स्वरे "वाऽन्यतः ० " ||१|४|६२॥ इति वा पुंस्त्वम् न० माषइलन्यादि सुरावीजम् । हुहूः० हुहून् । सर्वत्र स्वरे सन्धिः ॥१७॥
स्वयम्भू - प्रतिभू-प्रायाः सदृशाः खलपूः पृथक् । एभ्यो वर्षाभू - पुनर्भू - शब्दयोरन्तरं मतम् ||१८||
""
6
स्वयम्भूः “दृन्पुन०” || २|१|५९ ॥ इति नियमात् " क्विवृत्ते ० ||२||५८ ॥ इत्यप्राप्तौ " धातोः ०" ॥२|१|५०॥ इत्युव् स्वयंभुवौ । अग्रेऽप्येवम् । एवमात्मभू- मनोभ्वाद्याः । खलपूः स्वरे 'क्विन्वृत्तेः ०" ॥२|१|५८ || इति च वत्वं खलवौ ॥ वर्षाभूः स्वरे “हम्पुनर्–” ॥२|१|५९॥ इति वत्वे वर्षाव | पुनर्भूः वर्षा - 'भूवत् । पर ं स्त्रीत्वात् " स्त्रीदूतः " ||१|४|२९| इति है - आद्याः पुनर्वै० । आ० हे पुनर्भु । वर्षामूर्यदा मण्डूक्यां तदा स्त्रीलिङ्गः पुनर्भूत् ॥१८॥
: