________________
स्यादिशब्दसमुच्चयः। वाच्यलिङ्गाः कवर्गान्ताः स्वस्त्रोक्तप्रक्रियाजुषः । पुंसि स्त्रियां च सदृशा भेदभाजो नपुंसके ॥१॥ चन्ताः पुंस्यम्बुमुच् प्रायाः स्त्रियां वाच-प्रमुखाः समाः । वाच्यलिङ्गाः स्निग्धत्वच-मूलवश्च-सुक्रुञ्च-मुखा मताः ।। प्राश्चपाञ्च्-प्रमुखास्तुल्याः प्रत्यञ्च्-मध्वञ्च-मुखाः समाः। उदग्च् भिन्नः पृथग तिर्यञ्च सध्यञ्च सम्यञ्च समाविमौ ॥ विष्वद्यञ्च-देवद्यश्चौ च सर्वद्यञ्च् प्रमुखास्तथा । अदमुयश्चमुद्यश्चमुमुयञ्चदयश्चपि ॥४॥ गोच्च् पृथग् दृषदञ्च-मुख्या भिन्नाः प्राश्चादयोऽर्चने । वाच्यलिङ्गाः समाश्छन्ताः पुंसि जन्ता वणिज्-मुखाः ॥५॥ राज्-सम्नाजो समावृत्विज् भिन्ना रुज-सज्-मुखाः स्त्रियाम् । क्लीबे स्वसृज-मुखा वाच्यलिङ्गा देवेज-मुखाः समाः ॥६॥ धानाभ्रज भेदभाक तृष्णज्-युज्-बहू-प्रमुखाः पृथग् । झन्ता कान्ता टवर्गान्ता वाच्यलिङ्गा प्रकल्पिताः ॥ ७ ॥ तन्ताः पुंसि मरुन्मुख्याः स्त्रियां विद्युन्मुखाः समाः। क्लीबे जगन्मुखास्तत्र यकृतः शकृतोऽन्तरम् ॥ ८॥ वाच्यलिङ्गा महन्त-मुख्याः शन्तृङन्ताश्च सान्तराः। करिष्यन्त्-खजित्-कृतवन्त्-यावन्त-इयन्त्-मुखास्तथा ।९। थन्ता मता वाच्यलिङ्गास्तक्रमथ्-प्रमुखाः समाः। दन्ताः क्रव्याद्-मुखाः पुंसि स्त्रियां तुल्या दृषद्-मुखाः॥१०॥