SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ४५ हैमनूतनलघुप्रक्रिया दास् दामित्यादेशा वा भवन्ति । बुद्धथै, बुद्धये । बुद्धयाः, बुद्धेः । बुद्धयाम् , बुद्धौ । शेषं मुनिवत् । एवं मति-गति-रति प्रभृतयः । धेनूः। धेन्वै, धेनवे । धेन्वाः, धेनोः । धेन्वाम , धेनौ । शेष साधुवत् । नेदी । नद्यौ । नद्यः। नदीम् , नदीः। नद्या, नदीभ्याम् , नदीभिः॥ स्त्रीदूतः ।१।४।२९॥ नित्यस्त्रीलिङ्गादीकारान्तादूकारान्ताच्च शब्दात्परेषां स्यादेङितां स्थाने यथासंख्यं दै दास दास् दामित्यादेशा भवन्ति । नद्यै । नद्याः। नदीनाम् । नद्याम् । नदीषु । हे नदि ! । एवं गौरीप्रभृतयः॥ स्त्रियाः ।।१।५४॥ स्त्रीशब्दसम्बन्धिन इवर्णस्य स्वरादौ प्रत्यये परे इयादेशो भवति । स्त्रियो, स्त्रियः ॥ __ वाम्-शसि ।२।११५५॥ स्त्रीशब्दसम्बन्धिन इवर्णस्य अमि शसि च परे इयादेशो वा भवति । स्त्रियम् , स्त्रीम् । स्त्रियः, स्त्रीः । शेष नदीवत् । लक्ष्मीः । शेषं नदीवत् । वधः, वध्वौ, वधः । वधूः। वध्वा, वध्यै । हे वधु ! श्रीहीधीशब्दाः मुश्रीवत् । भूः स्वयंभूवत् । भूरतिभ्रूवत् ।। त्रिचतुरस्तिसूचतसृ स्यादौ ।२।१।१॥ स्त्रीलिङ्गे वर्तमानयोस्त्रिचतुरोः स्थाने स्यादौ विभक्तौ परे यथासंख्य तिस-चतस इत्यादेखौ भवतः । १-ड्यन्तत्वात् सिलोपः । २-अड्यन्तत्यान्न सिलोपः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy