SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ हैमनूतन लघुप्रक्रिया ॥ अथ स्वरान्तस्त्रीलिङ्गप्रकरणम् ॥ तत्र आकारान्तः स्त्रीलिङ्गो गङ्गाशब्दः ॥ दीर्घयाव्यञ्जनात्सेः | १|४ | ४५ ॥ दीर्घाभ्यां याब्भ्यां व्यञ्जनाच्च परस्य से: स्थाने लुक् स्यात् । अनेन सेलुकि, गङ्गा ॥ औता | १|४|२०|| आवन्तस्य प्रथमाद्वितीयाद्विवचनेन औकारेण सह एकारान्तादेशो भवति । गङ्गे । गङ्गाः । गङ्गाम्, गङ्गेाः ॥ ४३. येत् | १|४|१९॥ आवन्तस्य टौसोः परयोरेकारान्तादेशो भवति । गङ्गया, गङ्गाभ्याम् । गङ्गाभिः ॥ आपो ङितां यै यास् यास् याम् | १|४|१७ आबन्तस्य स्यादेङिता ङेङसिङसङीनां स्थाने क्रमेण यै यास यात्र याम् इत्यादेशा भवन्ति । गङ्गायै । गङ्गाभ्यः । गङ्गायाः । गङ्गयोः । गङ्गानाम् । गङ्गायाम् | गङ्गासु || 1 एदापः | १|४|४२|| सम्बोधने आवन्तस्य सिना सह एकारान्तादेशो भवति । हे गङ्गे । एवं खट्वा - प्रभृतयः ॥ नित्यदिद्विस्वरम्बार्थस्य ह्रस्वः | १|४| ४३ नित्यं दित्= दैदासदासदामादेशा येभ्यस्तेषां द्विस्वराम्बार्थानां चाssवन्तानां सम्बोधने सिना सह हूस्वान्तादेशो भवति । हे १ - पुंस्त्वाभावान्न नादेशः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy