SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया ५४५ शङ्खपटहम् । मार्दङ्गिकपाणविकम् । स्वैरेव-पाणिश्च पणवश्च पाणिपणवौ ॥ नित्यवरस्य ।३।१।१४१॥ नित्यमनिमित्तं जातिनिबद्धं वैरं येषां तद्वाचिनां शब्दानां स्वैर्द्वन्द्व एकार्थों भवति । अहिश्च नकुलश्चानयोः समाहारोऽहिनकुलम् । क्षुद्रजन्तुत्वेऽपि परत्वादने नैवैकार्थतेतीहोपन्यासः। पशुविकल्पः, पक्षिविकल्पश्च परत्वादनेन बाध्यते । अश्वमहिषम् , काकोलूकम् । यत्र न निनिमित्तं वैरं तत्र समाहार इतरेतरयोगो वा यथेष्टम् । देवासुरम् । देवासुरा इत्यादिः ॥ गवाश्वादिः ।३।१११४४॥ गवाश्वादिद्वन्द्व एकार्थों भवति । गौश्वाऽश्वश्चानयोः समाहारो गोश्वम् । पुत्रपौत्रम् , मूत्रपुरीषम् , मांसशोणितम् , दासीदासमित्यादि । आकृतिगणोऽयम् ॥ ... न दधिपय आदिः ।३।१।१४५॥ दधि पयः प्रभृतिर्द्वन्द्व एकार्थों न भवति । दधि च पयश्चाऽनयो ४. ५-७-अल्पस्वरस्य प्राक्प्रयोगः । ६-समस्वरत्वाद्ययेष्टं प्राक्प्रयोगः । ८-स्वरादित्वादल्पस्वरत्वान्महिषापेक्षयाऽय॑त्वाच्च प्राक्प्रयोगः। ९-राजदन्तादिः । १०-अय॑त्वात्प्राक्प्रयोगः । ११-राजदन्तादिः, स्वरे वेत्यवादेशः, समानदीर्घः । १-लध्वक्षरत्वादय॑त्वाच्च । २-अल्पस्वरः ।। ३-अल्पस्वरः । ४-स्त्रिया मातृतयाऽर्च्यत्वात् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy