SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया मुखदुःखे । शीतोष्णं शीतोष्णे इत्यादि । सहानवस्थानमिह विरोधः, विरोधिनामिति किम् ? कामक्रोधी, रूपरसगन्धस्पर्श इत्यादि। अद्रव्याणामिति किम् ? शीतोष्णे उदके स्तः। स्वैरिति किम् ? बुद्धिसुखदुःखानि । समाहारविवक्षायामेकत्वस्येतरेतरयोगविवक्षायामनेकत्वस्य च सिद्धत्वाद्विकल्पे सिद्ध सर्वमिदं विकल्पानुक्रमणं नियमार्थम् , सिद्धे सत्यारम्भो नियमार्थ इति वचनात् । ततश्च विरोधिनामेव अद्रव्याणामेव स्वैरेवेति नियमो बोध्यः, तेन प्रत्युदाहरणे सर्वत्रेतरेतरयोग एव ॥ __पशुव्यञ्जनानाम् ।३।१।१३२॥ पशूनां व्यञ्जनानां च स्वैर्द्वन्द्व एकार्थों वा भवति । गौश्च महिषश्च गोमहिषम् , गोमहिषौ । द्वन्द्वैकत्वे क्लीवता बोध्या। दधिघृतम् , दधिघृते । स्वैरेव तेनेह न-गोनेरौ । एव मन्यत्र ॥ तस्तृणधान्यमृगपक्षिणां बहुत्वे ।।१।१३३।। एतेषां बहुत्वे वर्तमानानां स्वैर्द्वन्द्व एकार्थों वा भवति । २-स्वरादित्वादुष्णशब्दस्य पूर्वनिपातप्राप्तावपि धर्मार्थादित्वाच्छीत- शब्दस्याऽपि पूर्वनिपातः । एवं चोष्णशीते इत्यपि । १-२-धर्मार्थादित्वात्पूर्वप्रयोगः, क्रोधकामावित्याद्यपि । ३-बुद्धे विषयः सुखादीति न सजातीयता । अनेकस्य प्राक्प्रयोगे प्राप्ते यथेष्टम् । ४-अल्पस्वरस्य प्राक्प्रयोगः । ५-इदन्तस्य प्राक्प्रयोगः । ६-अल्पस्वरस्य प्राक्प्रयोगः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy