SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ ५३८ हैमनूतनलघुप्रक्रिया संख्यातादहनश्व वा ७३।११७॥ संख्यातशब्दात्परो योऽहन् शब्दस्तदन्तात्तत्पुरुषादट समासान्तो भवति तस्याऽहन् शब्दस्य चाहनादेशो वा भवति । संख्यातं च तदहश्च संख्याताहनः, संख्याताहः । सर्वमहः सर्वा गः, अनः पूर्वः पूर्वाणैः । द्वयोरनोर्भवः द्वयनः पटः। द्वे अहनी प्रिये यस्य स द्वयहनप्रियः। अहोऽतिक्रान्तोऽत्यनः। स्त्रियां टित्वान्डीः, अत्यहनी कथा ॥ संख्यातकपुण्यवर्षादीर्घाच्च रात्ररत् ।७३।११९॥ संख्यात एक पुण्य वर्षा दीर्घ इत्येतेभ्यः सर्वाशादिभ्यश्च यो रात्रिशब्दस्तदन्तात्तत्पुरुषादत् समासान्तो भवति । संख्याता रात्रिः संख्यातरात्रः, एका रात्रि रेकरात्रः, पुण्या रात्रिः पुण्यरात्रः, वर्षाणां रात्रि वर्षारात्रः, दीर्घा रात्रि दीर्घरात्रः, सर्वा रात्रिः सर्वरात्रः, रात्रेः पूर्वः पूर्वरात्रैः, द्वयो राज्योः समाहारो द्विरात्रः, रात्रिमतिकान्तो ऽतिरात्र । स्त्रियामाप् ॥ ८-अवर्णेवर्णस्य, समानदीर्घः । ९-पूर्वकालेति समासः सर्वा शेत्यः अह्लादेशश्च । अतोऽह्रस्य ति णः । १०-पूर्वापरेति समासः । ११-तद्धितार्थे समासः, भवे तद्धितस्य कालेकणो द्विगोरनपत्य इति लुक्, सर्वांशेति अहादेशः। १२-उत्तरपदे तत्पुरुषसमास इत्ययहादेशेऽवर्णेवर्णस्येत्यलोपः । १३-पुंवत् , अवर्णेवर्णस्येत्यलोपः । १४-अंशिसमासः पूर्वापरेत्यनेन । १५-प्रादिसमासः, व्यासौ द्वितीया ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy