SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ १० हैमनूतनलघुप्रक्रिया व्यवच्छेद्य विशेष्यम् । नीलादिकं ह्युत्पलादिकं रक्तादिप्रकारेभ्यो व्यावतैयतीति नीलादिकं विशेषणमुत्पलादिकं विशेष्यमिति बोध्यम् । भिन्नप्रवृत्तिनिमित्तयोः शब्दयोरेकस्मिन्नर्थे वृत्तिरैकार्थ्यम् , तद्वंदेकार्थमिति बोध्यम् । नीलादिशब्दो ह्यत्र नीलादिधर्मविशिष्टमर्थ बोधयति । उत्पलादिशब्दश्च उत्पलसामान्यमाहेति नीलविशिष्टोऽर्थ उत्पमिति सामान्यविशेषयोः कथञ्चिदभेद इति नीलादिशब्दस्योत्पलादिशब्देनैकार्थता बोध्या। प्रथमोक्तत्वाद्वि'शेषणस्य प्राङ्निपातः॥ -- पुंवत् कर्मधारये ३।२।५७॥ परतः स्यनू कर्मधारये समासे स्न्येकार्थे उत्तरपदे परे पुंवद् भवति । कल्याणी चासौ प्रिया च कल्याणप्रिया । नाऽऽप्रियादावित्यादिप्रतिषेधवाधनार्थ आरम्भः ॥ पूर्वकालैकसर्वज़रत्पुराणनवकेवलम् ।।११९७॥ 'पूर्वकालवाचि नामैकादीनि चैकार्थानि परेण नाम्ना सह समस्यन्ते, स तत्पुरुषः कर्मधारयश्च । पूर्वः कालो यस्य सोऽर्थः पूर्वकालः, तद्वाचि नामेह पूर्वकालपदेन ग्राह्यम् । पूर्व स्नातः पवादनुलिप्तः स्नानानुलिप्तः। पूर्व छिन्न: पश्चात्प्ररूढश्छिमारूढो. वृक्षः । एकान्दः संख्यान्यासाया- उद्वितीयवाची। एका शाटी एकावाटी। एके ऋषक एकर्षयः। १-स्नात सि अनुलिप्स सि ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy