________________
४८९
हैमनूतनलघुप्रक्रिया अमव्ययीभावस्थातोऽपञ्चम्याः ।।२।२॥ अव्ययीभावसमासस्य अकारस्य सम्बन्धिनः स्यादेरमादेशो भवति पश्चमी वर्जयित्वा । अन्तगिरेः अन्तगिरम् , अन्तगिरि । पञ्चम्यां तु अन्तगिरात् , पारेगङ्गात् । वावचनात्पक्षे षष्ठीतत्पुरुषः। गङ्गायाः पारं गङ्गापारम् । षष्ठीसमासविकल्पे वाक्यम् । अव्ययस्येति स्यादिलुम्विधानादव्ययस्य स्याद्यन्तता ज्ञाप्यते इति ध्येयम् ।
वा तृतीयायाः ।३।२॥३॥ अकारान्तस्याव्ययीभावस्य सम्बन्धिन्यास्तृतीयायाः स्थानेऽमादेशो वा भवति । पारेगङ्गम् पारेगनेन ॥
सप्तम्या वा ३।२।४॥ अकारान्तस्याऽव्ययीमावस्य सम्बन्धिन्याः सप्तम्या अमादेशो वा भवति । अन्तगिरम् । अन्तगिरे ॥
यावदियत्त्वे ।३।१॥३१॥ इयत्त्वमवधारणम् । इयत्त्वे गम्यमाने यावदिति नाम नाम्ना समस्यते पूर्वपदार्थ अव्ययीभावश्च समासो भवति । यावन्त्यमत्राणि यावंदमत्रमतिथीन् भोजय । अमत्रपरिमाणेनातिथिपरिमाणमवधार्यतेऽत्र ॥ १-अन्तर् गिरि उसित्यलौकिकविग्रहः । अवर्णेवणेतीकारलोपः । २-यावद्
जस् अमत्र जस् इत्यलौकिकविग्रहः, यावदित्यव्ययमपि । अमत्रतुल्यपरिमाणान्नाधिकानित्यवधारणमत्र गम्यते । ------